पृष्ठम्:आर्यभटीयम्.djvu/219

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ३५ अाक्षवर्शनसंस्कारः १६७ [ प्राक्षदर्शनसंस्कारः ] ग्रहाणामक्षदृक्कर्माऽर्ययाऽऽह विक्षेपगुणाक्षज्या लम्बकभजिता भवेद्दणमुदक्स्थे । उदये धनमस्तमये दक्षिणगे धनमृणं चन्द्रे ॥ ३५ ।। इष्टग्रहस्य तात्कालिकविक्षेप'गुणिता स्वदेशाक्षज्या लम्बकेन भक्ता भवेत् । तत्र लब्ध कलादिविक्षेपे सौम्ये सति पूर्व°क्षितिजस्थे ग्रहे शोध्यम्, अपरक्षितिजस्थे क्षेप्यम् । दक्षिणविक्षेपे विपरीतम् । अत्र चन्द्रग्रहण विक्षेपवद् ग्रहोपलक्षणार्थम् । अत्रेदं' त्रैराशिकम्-यद्यवलम्बकस्याक्षी भुजा, विक्षेपस्य' का इति । ततः स्फुटक्रान्त्या द्युवृत्तव्यासार्धमानीयानुपातः-यदि द्युव्यासार्ध एषा भुजा, व्यासार्धे का इति । श्रप्रत्र प्रथममेव सूत्रोक्तम् । द्वितीयं न्यायसिद्धत्वान्नोक्तम् । तत्र पूर्वक्षितिजे° गोलस्योत्तरोन्नतत्वात्? ग्रहोऽधःस्थितः* । उत्तरविक्षिप्तो ग्रह उन्मण्डलादुपरि भवति। अत एव पूर्वमुदेति इति तत्कृत पूर्वापरान्तरं ग्रहाच्छोध्यम् । तत्रैव दक्षिणविक्षेपे गोलस्य दक्षिणावनतत्वाद्' ग्रहोऽधःस्थितः पश्चादुदेति । प्रतोऽत्र तदन्तरं योज्यम् । ग्रपरक्षितिजस्थे ग्रहे तद्वैपरीत्येन वासना योज्या। एतत्सर्व गोले प्रदर्शयेत्। एवं क्षितिजरेखास्थे ग्रहे दक्षिणोत्तरशलाकास्थे तु गोलस्य नतोन्नतत्वेऽपि ग्रहस्य पूर्वापरवैषम्यं नास्ति । ग्रतस्तत्र दृक्कर्माभावः । श्रवाऽन्तरेऽपि" कालद्वयेऽप्यनुपातः--यदि त्रिज्यातुल्यनतज्यया श्रौदयिकमास्तमयिकं वान्तरं,'।' इष्टज्यया'* किमिति' । इति पञ्चत्रिशं सूत्रम् ।। ३५ ।। STREET- 1. A. C. om. fàrq; in C, the reviser adds it. 2. A. friq (wr.) for ad 3. A. B. Tàfi 4. A. B. विक्षेपकस्य 5. A. C. D. E. om. If 6. B. om. fitfirî 7. E. गोलस्योन्नतत्वात् 8. E. om. MSSQ:fteter: 9. E. दक्षिणोन्नतत्वाद् 10. D. E. for $f 11. E. चान्तरं 12. E. इष्टनतज्यया 13. E. fềFaqffè