पृष्ठम्:आर्यभटीयम्.djvu/231

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

যতীন্ধ: খg ] अाक्षवलनम् अायनश्चलनं च Vo8 एतेषां वलनानां काष्ठीकृतानां तुल्यदिशां योगो, भिन्नदिशामन्तरं च कार्यम् । एवं कृते व्यासार्धवृत्तगतं' स्फुट्वलनं भवति । ग्राड्रबिम्बस्थाया दृष्टपूर्वापरायाः (ग्राह्यपूर्वापराया? ग्राह्यबिम्बस्थापमण्डलपूर्वापराया)श्चान्तरं भवतीत्यर्थः । एतद् वलनं स्पर्शे । स्पर्श इत्युपलक्षणम् । स्पर्शमोक्षमध्येष्टग्रासेषु' कर्तव्यमिति । श्रप्रक्षवलनवासना तावत्प्रदश्र्यते-गोलस्योत्तरोन्नतत्वात् निरक्षपूर्वापरावस्थितानि द्युवृत्तानि दक्षिणोत्तरवृत्तोपरिस्वस्तिकसम्पातादुभयतः क्षितिज*प्रदेशेऽक्षज्याप्रमाणेनोदगपसरन्ति । तेन दक्षिणोत्तरमण्डलस्थे ग्रहे निरक्ष-साक्षदिशोश्चैव' वैषम्यं नास्ति । क्षितिजप्रदेशे परमं वलनम्' । इष्टकाले तु’ मध्यान्नतो*त्क्रमज्यया' त्रैराशिकम्-त्रिज्यातुल्यनतोत्क्रमज्यया श्रप्रक्षज्यातुल्यं वलनं, इष्टज्यया" किमिति । लब्धं व्यासार्धवृत्तगतं' वलनं भवति । तच्च पूर्वकपाले द्युवृत्तस्योत्तरतोऽपसृतत्वात् पूर्वभागे सौम्यम्, ग्रपरभागे याम्यं च भवति। अपरकपाले"* विपरीतम्। एवमियमक्षवलनवासना'। श्रयनवलनवासनापि—चापान्तस्वाहोरात्रात्प्रभृति क्षितिजेऽपमण्डलं परमापक्रमप्रमाणेनापक्रान्तम्' । पुनः क्रमेण मिथुनान्ते तत्रत्येन स्वाहोरात्रवृत्तेन समत्वान्नापयानम्' । दक्षिणायने विपरीतम् । तेनोत्तरायणादिप्रवृत्तिज्ञानाय ग्राह्य राशित्रयं क्षिप्यते । तस्माच्चोत्क्रमज्याक्रमेण क्रान्तिवृद्धिरिति तद्भुजोत्क्रमज्यया वैराशिकम्-त्रिज्यातुल्योत्क्रमज्यया परमापक्रमज्यातुल्यं* व्याख्या-1. A. B. C. वृतकृतं; E. वृत्तगत 2. A. B. C. fềFF3FqYT EE ; E. fF THEgeë 3. E. स्पर्शमध्यमोक्षे ग्रासेषु 4. A. B. C. om. प्रदेश [-क्षत्वं*** to त्रैराशि] क-त्रिज्यातुल्य, three lines below. 5. E. om. få 6. D. adds Haft 7. A. B. C. इष्टकालेषु 8. A. B. C. मध्याहृती 9. E. क्रमया 10. D. E. seqT 11. E. वृत्तगं 12. A. B. C. D. अपरत्र कपाले 13. E. एवमिदमक्षवलनम् ॥ 14. A. परमोत्क्रमेणानपक्रान्तम् (wr) ; B. C. परमापक्रमणेनापक्रान्तम् । A. adds here firstri (wr.) 15. E. मिथुनान्तेनोपसृतम् ॥ 16. D. ज्यया तुल्यं