पृष्ठम्:आर्यभटीयम्.djvu/232

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A to गोलपाहे। thwo वलनम् । इष्टया किमिति । लब्धं त्रिज्यावृत्तपरिणतम् ग्रपमण्डलवक्रतानिमित्तं' वलनम् । तच्च मकरात् प्रभृति° उत्तरतो वलितत्वाद्* बिम्बपूर्वभागे सौम्यं भवति। अपरभागे च याम्यं भवति। कक्यदिौ विपरीतम्। एतयोश्च वलनयोः तुल्यान्यदिशोर्योगविश्लेषयुक्तिरिति स्पष्टैव° ।। एवंकृते ग्राह्यबिम्वगता'पमण्डलपूर्वापराया दृष्टपूर्वापरायाश्च व्यासार्धवृत्तगतमन्तरं भवति । तत्पुनः स्फुट'विक्षेपेण संस्क्रियते, इन्दोग्राह्यत्वे ग्राहकत्वे च स्फुटविक्षेपदिश्यपमण्डलस्य स्थितत्वात् । एतच्च दिङ्मात्रेणाऽस्माभिरुक्तम् । यदत्राऽन्यद् वक्तव्यं तत्सर्वं भाष्यादिषु द्रष्टव्यम् । ग्रन्थविस्तरभयान्नात्र° लिख्यते। इति पञ्चचत्वारिंशत् सूत्रम्। ४५ । [ ग्रहणवर्णः ] गृहीतग्राह्यबिम्बस्थान् वर्णानाह'- प्रग्रहणान्ते धूम्रः खण्डग्रहणे शशी भवति कृष्णः । सर्वग्रासे कपिलः स कृष्णताम्रस्तमोमध्ये ।। ४६ ॥ प्रग्रहणं ग्रहणप्रारम्भः । अन्तो मोक्षः समाप्तिः । तस्मिन् प्रग्रहणे श्रान्ते च ग्रस्तबिम्बं धूम्रवर्णं भवति' । खण्डग्रहणे ग्रर्धविम्बे गृहीतप्राये कृष्णवर्णं भवति’ । सर्वग्रासे** विमर्दकाले कपिलवर्ण' भवति । तत्रैव सर्वग्रहणे तमोमध्ये व्याख्या-1. MSS. corrupt : A. अपमण्डलाक्षेभानिमित्तं ; B. C. -लाक्षभा निमित्तं; E. -लवत्तानिमित्तं A. B. C. TEqSE ; E. om. the word. 2. E. adds 3HUSri 3. A. उत्तरतोऽवस्थितत्वात् 4. A. B, C. D. Hapl. om. of 3Tq TAHTFT T TỈ qąfềT 5. D. E. युक्तिरतिरुपष्टैव 6. A. B. C. girl for Tes । 7. E. एतत् for तत् 8. 9. C. D. E. भयात्तु नात्र 10. E. वर्णानार्ययाऽऽह 11. E. ग्ररुतशशी धूम्रवणों भवति । 12. E. अर्धबिम्वो गृहीतप्रायो कृष्णवणों भवति 13. E. सर्वग्रहणे 14. E. कपिलवणों