पृष्ठम्:आर्यभटीयम्.djvu/59

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीयपरिचयः V9 कलियातदिनानि ज्ञातुं शक्यन्ते । तानि च इच्छाराशिः । फलराशिश्च इष्टग्रहादेर्युगभगणाः । एवमेतैस्त्रैराशिकगणितेन ग्रहमध्यमा:' सिध्यन्ति । उच्चमध्यमे ग्रहमध्यमे च ज्ञाते उच्चमध्यमसमो ग्रहमध्यम* एव स्फुटः । तयोः कक्ष्यामण्डलस्थोच्च*नीच*रेखायाः परमविश्लेषो राशित्रयम् । तत्रत्येन मध्यमस्फुटान्तरेण व्यासार्धेन निष्पन्नाः पठिताः परिधयः । इष्टकालग्रहोच्चान्तरस्य त्रैराशिकेन तात्कालिकमध्यमस्फुटान्तरमानीय मध्यमग्रहतत्संयोगवियोगाभ्यामेव पारमाथिकग्रहसिद्धिः । तथा शीघ्रोच्चोपदेशो येषामस्ति ते शीघ्रोच्चस्वान्तरोत्पन्नेन फलेनापि संस्कृताः पारमाथिका भवन्ति । इत्येतान्यन्यानि च कालक्रियापादोक्तानि ग्रर्थजातानि सर्वाण्युपदेशमूलन्यायावसेयान्येव । तथा गोलपादोतान्यपि तथाविधान्येव। तथा हि-स्थलजलसीमायां लङ्कामधि'कृत्यापक्रमोपदेशात् पूर्वापराया उत्तरेण दक्षिणेन चापक्रान्तं किञ्चिदुन्मण्डलमस्तीति शक्यं कल्पयितुम् । श्रपमण्डलात् प्रभृति विक्षेपोपदेशात् ‘तदुत्तरतो दक्षिणतश्च स्थितं किञ्चिन्मण्डलमस्तीत्यपि' शक्यं कल्पयितुम् । एवमन्यान्यपि गोलपादोक्तान्यर्थजातानि बीजोपदेशवत् सुतरां न्यायपथमधिरोहन्ति । एवमेतदुपदेशसहितन्यायावसेयं वस्तु सुहृद्भावेन प्रदर्शयितुं श्रार्याष्टशतनिबद्धस्य* गणित-कालक्रिया-गोलपादात्मकस्य प्रबन्धस्य आरम्भ इत्यादीन्यनुसन्धेयानि । एवम् उपोद्घातं प्रदर्श्य शास्त्रं व्याख्यायते । [ इत्युपोद्घातः ॥ ] equat-1. D. E. Isfahel, Ht: 3. B. C. संस्थोच्च 5. D. Gap for ify 7. A. B. C. Hertf A. B. C. Her for H2R, E. Hapl. om. of Fife E. om. IT A, B, C, লিনক মন্তব্য