पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ ईशानशिवगुरुदेवपद्धतौ चतुर्भिः कुम्भ एव स्यात् कण्ठोंडशेनांसतो मुखम् । शिष्टभागद्वयं त्र्यंशं कृत्वैकेनाम्बुजं भवेत् ॥ ५३ ॥ भागेन वृत्तं शिष्टांशादूर्ध्वं कण्ठे तु भिन्नकौ । स्तम्भाग्रकर्णमार्गेण स्कन्धः स्यात् समविस्तृतः ॥ ५४ ॥ ऊर्ध्वं तद्वीरकाण्डस्य पोतिकां तु निवेशयेत् । स्तम्भव्यासात् त्रिगुणितं चतुर्गुणमथापि वा ॥ ५५ ॥ मण्ड्यायामः स्मृतोऽङ्घ्रयग्रसमो वेष्वब्धिभागतः । मण्ड्युत्सेधो भवेत् तावान् वीरकाण्डस्य चोच्छ्रयः ॥ ५६ ॥ विस्तारो दण्डमात्रः स्यादथ मण्डया: शरांशतः | सार्धेन फलकास्थौल्यं तत्समो वेत्रनिर्गमः ॥ ५७ ॥ मण्डेयुत्पलदलाकारा पाल्याकाराब्जपत्रवत् । ताम्बूलेंसमसौन्दर्यं यजमानसुखावहम् ॥ ५८ ॥ बिपरीतं विरूपं च वर्ज्यं तदशुभं यतः । अथवा स्यात् प्रकारोऽन्यो धृक्कण्ठापादविस्तृतिः ॥ ९९ ॥ पोतिकाखण्डमण्डीनि कुम्भं लशुनमूलकम् । अम्भोजमालास्थानानि स्तम्भाग्रे योजयेत् क्रमात् ॥ ६० ॥ अग्रहीनं तु लशुनं मूलोचं विपुलं भवेत् । साष्टांशाधिकमधै वा त्रिपादोदयमम्बुजम् || ६१ || मालास्थानविशालोचं दण्डमात्रं नियोजयेत् । मण्डयायामो भवेत् पादात् त्रिगुणो वा चतुर्गुणः || ६२ ॥ स्तम्भामतुल्यं मण्ड्युचं पञ्चभागोनमेव वा । त्रिभिरंशैस्त्रिपादैर्वा वीरकाण्डश्च तत्समः ॥ ६३ ॥ मण्ड्युत्सेधशरांशेन सार्धीशः फलकोच्छ्यः । क्षेत्रं च तत्सम ज्ञेयं मण्डपुत्सेधोपपादकम् ॥ ६४ ॥ पाल्याकारं तु पद्माभं त्रिधा नागदलोपमम् । तदूर्ध्वं पोतिका स्थाच्या तस्या लक्षणमुच्यते ॥ ६५ ॥ १. 'एड्युच्चोत्पादनाका' ग. पाठः २. 'लतलसौ' ग. पाठः, ३. '०ठः' ख 'काः' ख. पाठः• पाठः, ४,