पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

४५२ ईशानशिवगुरुदेवपद्धतौ गोपुरादथ निष्क्रम्य प्रादक्षिण्येन तु व्रजेत् । बलिपीठे + + + + + + स्थित्वा तदुन्मुखः ॥ २७ ॥ ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः । ते रुद्रपार्षदाः सर्वे गृह्णन्तु बलिमुत्तमम् ॥ २५ ॥ इत्यनेन गणाञ् शम्भोः श्रावयित्वा ततो गुरुः । मध्यहारान्तरा गच्छन्ना + + + क्षिपेद् बलिम् ॥ २६ ॥ अष्टौ गणेशा नन्द्याद्याः कोटिकोटिगणेश्वराः । नन्दीशश्च महाकालो भूतनाथो महीधरः ॥ २७ ॥ पर्वतेशो गुहेशश्च कालपाशकपालिनौ । प्रागादिकं क्रमादेभ्यः स्वाख्याभिर्चिकिरेद् बलिम् ॥ २८ ॥ ततस्तु बलिपीठस्म परितस्तूपपीठगान् । भूतिदायांस्तु पूर्वाधं संपूज्य विकिरेद् बलिम् ॥ २९ ॥ भूतिदं दुर्निरीक्षं च भीमरूपं सुलोचनम् । सुमुखं त्रिशिखं चेति त्रिभुजं त्रिशिरसं तथा ॥ ३० ॥ पिङ्गलं हरसेनं च दशैतान् भूतनायकान् । पिङ्गलं तत्कुमुदके हरसेनं तथोपरि ॥ ३१ ॥ पीठपङ्कजमध्ये तु निजाख्याभिर्नमोन्तकम् | हरसेनं तु तन्नाम्ना तद्गायत्र्या व पूजयेत् ॥ १२ ॥ ओं हरसेनाय विद्महे महाबलाय धीमहे तन्नो दशमूर्तिः प्रचोदयात् इति । सर्वान्नेन बलिं दद्यात् पुष्पाद्यं तदशेषतः । क्षिप्त्वा नमस्कृत्य गुरुः प्रविशेद् देवमन्दिरम् ॥ ३३ ॥ ततः प्रवृत्तसङ्गीतलास्यताण्डवमण्डनैः । विलम्बितं समाश्रित्य द्वितीयं तु प्रदक्षिणम् ॥ ३४ ॥ नीत्वा द्रुतं तृतीयं तु गीतवादित्रनिस्वनैः । नीत्वा प्रदक्षिणं देवमालयान्तः प्रवेशयेत् ॥ ३५ ॥ अन्तर्मण्डल के प्राग्वत् परिक्रम्य प्रदक्षिणम् । प्रक्षाल्य पादौ प्रविशेन्मण्डपे वार्धमण्डपे ॥ २६ ॥