पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टचत्वारिंशः पटलः । मधूकशाकतिमिश पनसा + + + + ताः । शिबिकाधिकारः । रथ + + + + ह्यात्तु षट्सप्ताष्टवितस्तिभिः ॥ ६४ ॥ व्यासश्चाक्षायतिः सैव नाभ्यन्ताक्षोत्तरायतिः । स्वव्यासाघ्यर्धमायामो रथोपस्थस्य कीर्त्तितः ॥ ६५ ॥ रथ + + + + + + + + ++ + वा नवा | सप्त वा पञ्च वा युक्त्या बद्धाश्चाक्षोत्तरोर्ध्वतः ॥ ६६ ॥ तिर्यक्कम्पैस्तु तावद्भिरयःकीलैर्दृढीकृतः । अग्राक्षान्मध्यभारो यः स चेषादण्ड इष्यते || ६७ ।। तस्योपरिष्टाद् यद् वक्रं दारु ++++++ । कुबर: स्यात् तदायामो हस्तत्रयमितो भवेत् ॥ ६८ ॥ आवक्रकूबरस्त्वग्रे पद्मकुड्मलसन्निभः । ऊर्ध्वं तु भारदारूणां फलकाभिस्तु युक्तितः ॥ ६९ ॥ प्रस्तर: पट्टकीलाद्यैः सुदृढः सुसमो भवेत् । स्वायामवेदभागेन रथोपस्थाप्रनिर्गमः ॥ ७० ॥ सारथिप्रभृतीनां स्यादांसनार्थं प्रकल्पितः । अक्षोत्तरायामसमा चक्राणां विस्तृतिः स्मृता ॥ ७१ ॥ तन्मध्यनाभयस्तास्तु दशमात्रांङ्गुलोन्नताः । तषवदेव च तासां तु विस्तारः परितः स्मृतः ॥ ७२ ॥ चक्रेष्वरान्यर्वेषु द्वात्रिंशद् वा तदर्धतः । ते स्युः पिपीलिकामध्या यवमध्यास्तथापि वा ॥ ७३ ॥ इन्दीवरंखलाकारा मातुलुङ्गोपमास्तु वा । नाभ्यादि तेषामायामो नेमेः सीमादितो भवेत् ॥ ७४ ॥ नेमिव्यासस्तु वेदेषुषण्मात्रोऽन्ताधमादितः । पुष्पस्वस्तिक खण्डेन्दुमत्स्याद्यैस्तदलङ्कृतिः ॥ ७५ ॥ चक्रार्धमानदीर्घाः स्युः स्तम्भाश्चत्वार एव हि । मलायोस्ते व्यासेन चतुझ्यङ्गुलसस्मिताः ॥ ७६ ।।