उत्तरार्धे एकोनपञ्चाशः पटलः । तृतीयोऽवभृथार्थ: स्यात् सर्वे स्युः पूर्वमर्पिता: । ध्वजंदण्डतरुः पूगस्त्वक्सार: शाक एव वा ॥ ९ ॥ सालो वा चम्पकः शस्तो रक्तसारोऽसनस्तथा । अकोटरो निर्वणः स्याद् ऋजुन्थ्यादिवर्जितः ॥ १० ॥ सवल्कली वेणुपूगावन्ये सर्वेऽव्यवल्कलाः । मुलाप्रयोः समच्छेदाः साधुवृत्ता मनोरमाः ॥ ११ ॥ ध्वजदण्डस्य तुझं तु विज्ञेयं द्वारतुङ्गतः । गुणं श्रेष्ठं मध्यमत्यष्टिमितैः ॥ १२ ॥ कनिष्ठ स्याद् दशगुणमथ स्तूपिसमोच्छ्रयः । मुख्य कण्ठमितं मध्यं नीचं वृषतलोच्छ्रितम् ॥ १३ ॥ त्रियेकगुणकं वा स्याद् विमानादिति केचन । चत्वारिंशश्च षट्त्रिंशत् त्रिंशच्चैवाङ्गुलानि तु ॥ १४ ॥ श्रेष्ठादिध्वजदण्डानां नाहाः स्युस्त्रिविधाः क्रमात् । ध्वजदण्डसजातीयस्तूपदण्डतरुर्भवेत् ॥ १५ ॥ ध्वजदण्डचतुर्थशात् पञ्चशाद् वा षडंशतः । संपदण्डस्य तुझं स्यात् तन्नाहो द्वादशाङ्गुलः ॥ १६ ॥ विकारमनुसूर्यांशैरायताः सार्धविस्तृताः । सच्छिद्रामास्त्रयस्कन्धारिछद्रप्रोतोपदण्डकाः ॥ १७ ॥ प्रविष्टा ध्वनदण्डाग्रे युक्त्या कार्याः समान्तराः । उपदण्डः केतुदण्डादमे तालाधिकायतः ॥ १८ ॥ तस्यामाधस्तलामात्रे (?) वलयस्त्वायसो भवेत् । पताकाबन्धनीरज्जुस्तद्न्तः संविशेद् यथा ॥ १९ ॥ कार्पासिकी यन्त्ररज्जुः स्थूला मध्यमया समा । द्विगुणा ध्वजदण्डोच्चा क्षालिता सुविशोधिता ॥ २० ॥ ध्वजस्थानं वृषाग्रे वा बलिपीठाग्रतोऽपि वा । कुर्यात् तु मध्यहारायां मर्यादामध्यमेऽथवा ॥ २१ ॥ द्वारा रविगुणं पुरोद्वाराद् विहाय तु । क्रमेण नाभिकट्यूरुदध्ने गर्ने विलेपिते ॥ २२ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६२
एतत् पृष्ठम् परिष्कृतम् अस्ति