पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ लिङ्गपीठं समालिप्य सुवर्णकुसुमादिभिः । मुक्तपुष्पैश्च मालाभिर्हेमपट्टैश्च भूषणैः ॥ ७१ ॥ अलङ्कृत्यालयं चापि चित्रैः कुसुममण्डपम् । चन्दनागरुकर्पूर पुष्पधूपैश्च पूरयेत् ॥ ७२ ॥ सकर्पूर दशैदीपैः सुगन्धस्नेहपूरितैः । आल्यान्तर्बहिश्चापि निवेद्यान्तं यजेच्छिवम् || ७३ ॥ चतुस्त्रिद्विगुणं नित्यनिवेद्यात् प्रतिवासरम् । श्रेष्ठादिकं यथाशक्ति नैवेद्यं विनिवेदयेत् ॥ ७४ ॥ उपचारोक्तमार्गेण ससूपं सोपदंशकम् । सापूपलड्डुकफलं तदन्नं षड्विधं शुचि ॥ ७५ ॥ पायस क्रुसरं प्रातर्मध्याह्ने सगुलौदनम् । शुद्धान्नं त्वथ दध्यन्नं सहरिद्रं निशामुखे ॥ ७६ ॥ मुद्रौदनं त्वर्धरात्रे सर्व मधुघृतोत्तरम् । अथवा सर्वसन्ध्यासु पायसादीन्यनुक्रमात् ॥ ७७ || [क्रियावाद: ईशानादिषु वक्त्रेषु दद्याच्छुद्रौदनं पुनः । निशासु यन्त्रलिङ्गाद्यैः पत्रच्छेदादिभिस्तथा ॥ ७८ ॥ . इन्धा॑दिभिर्विचित्राभिः प्रेक्षार्हांभिर्यजेच्छिवम् । पूर्वमध्यापराह्णेषु यात्रा रात्रौ च शस्यते ॥ ७९ ॥ श्रेष्ठोत्सवे चतुष्कालं त्रिद्विकालं तथान्ययोः । स्थेन रङ्गेण तथा शिबिकाभिश्च वै क्रमात् ॥ ८० ॥ श्रेष्ठादिकास यात्रा स्यात् सर्वैर्यानैस्तु संभवे । अलङ्कृते समाच्छन्ने हेमपट्टाम्बरादिभिः ॥ ८१ ॥ सुवर्णरत्नमालाभिः पताकाभिश्च शोभित । आरतीर्णे चित्रवसनैः कुसुमोत्करमण्डिते ॥ ८२ ।। याने हैमादिकं देवं श्रेष्ठादिक्रमयोगतः । आरोप्य तस्मिन् सुदृढं विदध्यात् पीठरक्षणम् ॥ ८३ ॥ १. 'ण्डा' क. पाठः,