पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वस्ति राज्ञे प्रजाम्यश्च स्वस्ति राष्ट्राय सर्वदा । स्वस्ति गोब्राह्मणेग्योऽस्तु वैश्येन्यः स्वस्तिवताम् || स्त्रीशूद्रेभ्योऽपि च स्वस्ति भूतेभ्यः स्वस्ति वर्धताम् | स्वम्त्यस्तु जङ्गमेग्यश्च स्थावरेभ्यस्तथैव च ॥ ९६ ॥ स्वस्ति चास्तु च मन्त्रेभ्यः कर्मणे स्वस्ति वर्धताम् | स्वस्थ्यस्तु सर्वदेवेश्यः पितृभ्यः स्वस्ति सर्वदा ॥ ९७ ॥ ऋषिभ्यः स्वस्ति भवतु ममेभ्य: स्वस्ति वर्धताम् | स्वस्ति पातालवासिभ्यो दिव्येभ्यः स्वस्ति सर्वदा ॥ ९८ ॥ स्वस्त्यस्तु चान्तरिक्षेभ्यः सर्वेभ्यः स्वस्ति वर्धताम् । उत्सवेऽस्मिन् महेशस्य बलिभि: स्वस्ति वर्धताम् ॥ ९९ ॥ इति अथ द्वारपलोकेशवृषभाणां यथाक्रमम् | विघ्नस्य वीरभद्रस्य मातॄणां शास्तुरेव च ॥ १०० ॥ षण्मुखस्य च दुर्गायाः कुबेरहरिणाङ्कयो । चण्डक्षेत्रेशयोश्चापि तीक्ष्ण नेत्र मृगास्ययोः ॥ ११ ॥ बहिर्मध्यमहारायां नन्दीशप्रभृति क्रमात् । गणेश्वराणां पीटस्थ भूतेशानां तथैव च ॥ १०२ ॥ दिक्षु विंशतिसंख्यानां गणेशानां पृथक् पृथक् । बलिंमन्त्रास्तु लिख्यन्ते तेषामेवेह तुष्टये || १०३ ॥ ओं स्फुर स्फोटय हूं त्रिणेत्राय स्वाहा । ओं ह्रीं प्रों कपालिन् हूं नमस्ते द्वारि युक्ताय शूलहस्ताय धीमते । दृष्टया निहतदैत्याय नन्दीशाय नमो नमः ॥ १०४ ॥ नमस्ते द्वारियुक्ताय परशुव्यप्रपाणये । दृष्ट्या निहतदैत्याय महाकालाय ते नमः ॥ १०५ ॥ आभ्यां नन्दिमहाकालावुपतििष्ठत | ओं भीं भृङ्गीशाय नमः । औं गं गणपतये नमः ।