पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ स्वाहा | ओं ये भूताः पुरःसदो निशाचरा रौद्राः सदसन्तो विरूपा विश्व रूपा महारूपा घोररूपा मृगास्या विहगाननाः पुष्टिकृतोऽपुष्टिकृतः कामदा बलिमिच्छन्ति तेषां बर्लि हरामि । महद्भयो रुद्रकेभ्यः सर्वेभ्यस्तेभ्यो नमोनमः स्वाहा । ओं अग्नये तेजोधिपतये सायुधवाहन परिवाराय रुद्रपार्षदे नमः । ओं मुखं यः सर्वदेवानां येन हव्यं च नीयते । येन प्रवर्तते सर्व नमस्तस्मै हविर्भुजे ॥ ११३ ॥ ओं आमेय्यां दिशि शिवस्य भगवतो ये गणाः शक्तिपाणयो रक्ता रक्ताक्षा रक्तलोहिता दिव्यान्तरिक्षभौमाः पातालतलवासिनस्तेभ्यस्तांभ्यो नमो- नमः स्वाहा । नमः । ओं ओं यमाय प्रेताधिपतये सायुभवाहनाय रुद्रपार्षदे नमः । तत्पार्षदेभ्यो येन संहियते सर्वे येन सर्वं च रक्ष्यते । यस्माद् बिभेति लोकोऽयं प्रेतनाथ | नमोऽस्तु ते ॥ ११४ ॥ ओं नमो भूतेभ्योऽरिष्टकृभ्य इत्यादिना च । ओं याम्यां दिशि शिवस्य भगवतो ये गणा दण्डपाणयः कृष्णा कृष्णाक्षाश्च कृष्णलोहिता दिव्यान्तरिक्षभौमाः पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा । ये भूता दक्षिणसद इत्यादिना च । ओं निरृतये रक्षोधिपतये सायुषवाहनपरिवाराय रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः । औ रक्षसां यातुधानानां पिशाचानां च यः पतिः । तस्मै निरृतये नित्यं रक्षसां पतये नमः ॥ ११५ ॥ ओं नमो भूतेभ्योऽरिष्टकृभ्य इत्यादिना च । ओं नैर्ऋत्यां दिशि शिवस्य भगवतो ये गणाः खड़हस्ताः श्यामाः श्यामाक्षा: श्यामलोहिता दिव्यान्तरिक्षभौमाः पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा ।