पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपश्चाशः पटलः । औं वरुणाय जलाधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः । ओं येन प्रसूयते सर्व यस्मिन् सर्व प्रलीयते । वरुणाय जलेशाय पाशहस्ताय ते नमः ॥ ११६ ॥ औं नमो भूतेभ्योऽरिष्टकृय इत्यादिना च । ओं वारुण्यां दिशि शिवस्य भगवतो ये गणाः पाशपाणयः शबल्यः शबलाक्षाः शबललोहिताः दिव्यान्तरिक्षभौमाः पातालनिवासिनः तेभ्यस्ताभ्यो नमो नमः स्वाहा । ओं ये भूताः पश्चिमसदः इत्यादिना च । ओं बायवे प्राणाधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे नमः | तत्पार्षदेभ्यो नमः । औं आपूर्यन्ते प्रवर्तन्ते येन प्राणादिवायवः | भूतानामिह सर्वेषां नमस्तस्मै नभस्वते || ११७ ।। औं नमो भूतेभ्योऽरिष्टकृञ्ज्य इत्यादिना च । ओं वायव्यां दिशि शिवस्य भगवतो ये गणा अङ्कुशपाणयः पीताः पीताक्षाः पीतलोहिताः दिव्यान्तरिक्षभौमाः पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा । ओं कुबेराय यक्षाधिपतये सायुधवाहन परिवाराय रुद्रपार्षदे नमः | तत्पार्षदेभ्यो नमः । ओं यत्प्रसादाज्जगत् सर्वे धनेन परिपूर्यते । तस्मै गुह्यकनाथाय धनेशाय नमोऽस्तु ते ॥ ११८ ॥ ओं सोमाय नक्षत्राधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे नमः । तरपार्षदेभ्यो नमः । ओं ज्योत्स्नापते ! नमस्तुभ्यं नमस्ते ज्योतिषां पते । नमस्ते रोहिणीकान्त ! सुधाकुम्भ | नमोऽस्तु ते ॥ ११९ ॥