पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपञ्चाशः पटलः । ओं नमो भूतेभ्योऽरिष्टकृद्भय इत्यादिना च | ओं अधस्तादू दिशि शिवस्य भगवतो ये गणाश्चक्रपाणयो धूम्रा धूम्राक्षा धूम्रलोहिता दिव्यान्तरिक्षभौमा: पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा । ओं ओं ये भूता अधस्सद इत्यादिना च । ओं वृषभाय नमः । ओं हरवाहनाय नमः | ओ महाबलाय नमः । ओं सौरभेयाय नमः । वाहनाय नमः शम्भोः क्षुब्धार्णवधनस्वन ! | वृषभाय नमस्तुभ्यमुत्सवस्यह वृद्धये || १२३ || ओं वीं वीरभद्राय नमः । ओं वीरभद्राय विद्महे गणेश्वराय धीमहि । तन्नः शान्तः प्रचोदयात् । ओं गं गणपतये नमः । ओं एकदंष्ट्राय विद्महे भवपुत्राय धीमहि । तन्नो दन्ती प्रचोदयात् । व्य ब्रह्माण्यै नमः । ओं ब्रह्मांत्मिकायै विद्महे कुशहस्तायै धीमहि । तन्नो ब्रह्माणी प्रचो- दयात् । ओं मां माहेश्वर्यै नमः ।ओं रुद्रात्मिकायै विद्महे शूलहस्तायै धीमहि तन्नो माहेश्वरी प्रचोदयात् । ओं मां कौमार्यै नमः । ओं स्कन्दात्मिकायै विद्महे शक्तिहस्तायै धी- महि । तन्नः कौमारी प्रचोदयात् । औँ हैं वैष्णव्यै नमः ।ओं विष्ण्वात्मिकायै विद्महे चक्रहस्तायै धीमहि । तन्नो वैष्णवी प्रचोदयात् । ओं हैं वाररायै नमः | ओं प्राजापत्यायै विद्महे गदाहस्तायै धीमहि । तन्नो वाराही प्रचोदयात् । ओं हो इन्द्राण्यै नमः।ओं इन्द्रात्मिकायै विद्महे वज्रहस्तायै धीमहि । तन्न इन्द्राणी प्रचोदयात् । ओं हौं महाकाल्यै नमः । ओं रुद्रात्मिकायै विद्महे शुलहस्तायै धी- महि । तन्नश्चामुण्डी प्रचोदयात् ।