पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ “दीर्घस्वरैः क्रमाद् भिन्नः सान्तस्वाख्यादिभिः स्थितः । बीजानीहाष्टमातॄणां सप्तपक्षे तु सप्त वै ॥" इति स्वच्छन्दे । ओं मातृभ्यो नमः । ओं सर्वलोकमातृभ्यो नमः । ओं सर्वलोकमातृ- गणेभ्यो नमः | ओं नानारूपा मातरः प्रतिदिशं व्यवस्थिता दिव्यान्तरिक्षभौमाः पाता- लवासिन्यस्ता इहायान्तु शिवाज्ञया अस्माननुगृह्णन्तु (प्रतिगृह्णन्तु ) पूजां सौम्य- रूपधारिण्यस्ताभ्यो मातृभ्यो नमो नमः स्वाहा | ओं शां शास्त्रे नमः | ओं प्रशास्त्रे नमः औं महाशास्त्रे नमः | ओं शां हुं कुमाराय नमः | ओं इस्त्य- श्ववाहनाय नमः । ओं रुद्रपुत्राय नमः । [क्रियापाद: ओं भूतनाथाय विद्महे (भवपुत्राय) धीमहि । तन्नः शास्ता प्रचोदयात् । ओं प्रभायै नमः इति शास्तुर्वामतस्तद्देव्यै, ओं सत्यकाय नमः इति शास्तु- दक्षिण तस्तत्पुत्राय | - शाम्बादीनां गणा ये तु कोटिकोटिगणाधिपाः | भवन्तु सर्वे सम्प्रीतास्तेभ्यस्ताभ्यो नमो नमः || १२४ ॥ शास्तु: पश्चिमतोऽनेन शाम्बादिभ्यो बालें हरेत् । चचत्पदं तु तारादि नमोन्तं च भुवेपदम् ॥ १२५ ॥ स्कन्दमन्त्रौ बलौ जप्ये होमः स्वाहान्त एव हि । ओं कार्त्तिकयाय नमः । ॐ देवसेनायै नमः | इति तद्वामतो देव्यै । ओ षण्मुखाय विद्महे महासेनाय धीमहि । तन्नः स्कन्दः प्रचोदयात् । घनौ शरामिस्वरगौ चण्डशब्दस्ततः परम् ॥ १२६ ॥ तारादिहुंफडन्तोऽयं चण्डेश्वरमनुःस्मृतः । ओ चण्डाय नमः | ओं चण्डेश्वराय नमः । ओ चण्डेश्वराय विद्महे महासेनाय धीमहि । तन्नश्चण्ड: प्रचोदयात् । ओंक्षां क्षीं लूं क्षेत्रपालाय नमः | ओं वटुकनाथाय नमः । ओं विश्वक्षेत्राधिपतये विश्वसिद्धिप्रदायिने ॥ १२७ ॥ विश्वरक्षणशीलाय क्षेत्रपालाय ते नमः । तीक्ष्णनेत्रमगाम्ययोः ॥ १२८ ॥