पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनपञ्चाशः पटलः । औ तीक्ष्णनेत्राय नमः | ओं मृगास्याय नमः | निष्क्रम्य गोपुरादू बाझे बलिपीठस्य पूर्वतः । स्थित्वा तु पार्षदान् सर्वाननेनैवानुमन्त्रयेत् ॥ १२९ ॥ औ दू यथा ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः । ते रुद्रपार्षदाः सर्वे गृह्णन्तु बलिमुत्तमम् || १३० ॥ इत्युक्त्वामन्त्र्य तु गणान् नन्द्यादिभ्यो बर्लि हरेत् । नन्दीशं च महाकालं भूतनाथं महीघरम् ॥ १३१ ॥ पर्वतेशं गुहेशं च कालपाशं कपालिनम्ं । इष्ट्वा तेभ्यो नमोन्तैः स्वैर्नामभिर्विकिरेद् बलिम् || १३२ - अथं विंशतिसं(ख्यै?ख्या ) स्तु गणकोटीश्वराः पृथक् । ते स्युः प्रतिदिशं तेभ्यो नामभि: स्वैर्बलिं हरेत् ॥ १३३ ॥ महाकालो विधाता च वज्रपाणिः क्रतुः प्रभुः । दक्षः शतक्रतुतनुरप्रमेयोऽथ वीर्यवान् ॥ १३४ ॥ नित्यो विद्युत्प्रभश्चैव शूलहस्तस्त्रिलोचनः । स्वाङ्गदीपस्तमोघ्नश्च सृष्टिकृचोरुविक्रमः ॥ १३५ ॥ मान्धाता च महावीर्यो नित्ययोगः प्रसादनः । इति प्राच्यां गणेश्वराः । अभिरग्निसमानश्च ज्वालामाली च विश्वभुक् ॥ १३६॥ हुताशो मूर्तिमान् व्यापी कपिलो रक्तलोचनंः । उम्रो रक्तवपुर्धूम्रः सप्तार्चिर्विश्वमेषजम् ॥ १३७ ॥ सुतपा वेगवांश्चाथ भस्मच्छन्नो मरुत्सखः । योगप्रियो दारुकश्चेत्यामेय्यां कोटिनायकाः ॥ १३८ ॥ यमो वैवस्वतो धाता दैत्यघाती प्रजान्तकः । मृत्युः प्रेताधिपो धर्मः : कृष्णः कृष्णाक्ष एव च ॥ १३९ ॥ नित्ययोगी च कालश्चाप्याशुकारी परेतपः । मायारूपी कृतान्तश्च सत्यासत्यप्रियः सुहृत् ॥ १४० ॥