पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ पिशाचरात्रं च ततः सप्तपक्षे यथाक्रमम् । नवपक्षे विष्णुरात्रमष्टमं परिचक्षते ॥ १६५ ॥ प्राजेशरात्रं नवमं तेषु तत्तइलिं क्षिपेत् । सपुष्पकुशशुद्धानं ब्रह्मरात्रे बलिः स्मृतः ॥ १६६ ॥ अन्नं दधिनिशाचूर्णलाज सक्तुजलान्वितम् । भूतक्रूरमिति ख्यातं भूतरात्रे तु दापयेत् ॥ १६७ ॥ इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदधि । इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः ॥ १६८. ।। वैणवानं पयोयुक्तं गान्धवें स्याच्चतुर्थके । पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः ॥ १६९ ॥ रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे । सप्तमे त्वथ पैशाचे माषान्नं कुसरं मधु ॥ १७० ॥ हारिद्रचूर्णतैलाढ्यं समाषं बिकिरेद् बलिम् । अष्टमे पायसं साज्यं विकिरेन्नवमे पुनः ॥ १७१ ॥ साज्यक्षीरं तु कृसरं प्राजापत्ये बलिः स्मृतः । अन्यथा केचिदाचार्याः प्राहुर्वै गणसप्तकम् ॥ १७२ ॥ ते भूतपितृयक्षाश्च नागब्रह्मेशवैष्णवाः । गणास्ते नवपक्षे तु स्कन्दमातृसमन्विताः ॥ १७३ ॥ प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् । तिलैस्तण्डुलमिश्रैस्तु पितृरात्रे द्वितीयके || १७४ ॥ तृतीये नालिकेराम्भश्शाल्यन्नैर्यक्षरात्रके । सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ १७५ ॥ सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे । सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेत् ॥ १७६ ॥ गुलौदन साज्येन सप्तमे वैष्णवे बलिम् । स्कन्दराने गुलान्नं तु दध्यन्नं मातृरात्रके ॥ १७७ ॥ साज्यं सनालिकेराम्बु द्रानिशा चूर्णतोऽरुणम् । अतोऽधिकदिनैः श्रेष्ठाद्युत्सवेषु यथाक्रमम् || १७८ ॥