पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति

कलशभेदेन द्रव्यादिभेदाः] उत्तरार्धे पञ्चाशः पटलः । दैवतं चापि नामानि मन्त्रास्तेषां नमोन्तकाः । आपोराजानमाद्यात् प्राग् याम्ये पुरुषसूक्ततः ॥ १९९ ।। कंद्राद्येन वारुण्यामिमाँ रुद्राय चोत्तरे | नवकानां तु मन्त्राः स्युरापो विष्णुश्च पूर्वयोः || २०० ॥ सूक्तयोर्दैवतं चाथ रुद्रः स्याच्छिष्टयोरपि । आग्नेयस्याष्टकस्येमाँ रुद्राय स्थिरधन्वने || २०१ ।। हिरण्यवर्णाः शुचय इत्याद्यं नैर्ऋताष्टके । हिरण्यशृङ्गमित्याद्याद् वायव्याष्टघटैरपि ॥ २०२ ॥ शन्न इन्द्रादिकं सूक्तमैशान्यामष्टकस्य तु रुद्रश्चापो वरुणश्चेन्द्राग्नी दैवतं क्रमात् || २०३ || एतैर्देवमभिषेचयेदिति यावत् । त्रिकाणामथ चाष्टानामिन्द्राग्न्योरन्तरत्रिकान् । प्रारभ्याङ्गुष्ठमात्रश्च भुवनेश्वरसंज्ञकः ॥ २०४ ॥ ईशानश्चैकपिङ्गाक्ष उद्भवश्च भवस्तथा । महादेवो महातेजा मन्त्रास्तद्देवताश्च ते ॥ २०५ ॥ तारादिनमोन्तानि तत्तन्नामधेयानि मन्त्रा इति यावत् । इदंविष्ण्वादिक चाथ दधिक्रावणादिकत्रयम् ॥ २०६ ।। अग्निमीळेतिपूर्वा ऋगिषेत्वेत्यादिकं तथा । घृतं मिमिक्षेत्याद्यं च मधुवाता ऋतायते ॥ २०७ ॥ मन्त्राः स्युर्देवताश्चासामाद्याया विष्णुरुच्यते । दध्यादित्रितयस्याप ऋग्वेदादेस्तु पावकः || २०८ ॥ इषेत्वाद्यस्य सविता घृतादेरपि चानलः । मध्वादेः पितरो दैवमाप्यायस्वादिके शशी ॥ २०९ ।। आकाशोऽर्कश्च सोमश्च यजमानश्च दैवतम् । मन्त्राः पुरोवत् पङ्क्तयर्णव्योमव्यापिषडर्णकौ ॥ २१० ॥ अघोरास्त्रं तथास्त्रं च मन्त्रास्तद्देवता शिवः । एभिर्यथाक्रममभिषेचयेदिति यावत् । मध्येन शिवकुम्भेन महत्या व्योमविद्यया ।। २११ ॥ ४९७