पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

४९८ ईशानशिवगुरुदेवपद्धतौ अभिषिञ्चेन्महादेवं देवतास्य शिवः स्वयम् | अष्टोत्तरशतस्य । द्विपञ्चाशत्समधिकद्विशतस्त्रपनस्य तु || २१२ ॥ मध्यकुम्भं यथापूर्वी हेमरत्नकुशाम्बुभिः । पूरयेदथ दिक्ष्वष्टनवकान्यपि तद्बहिः ॥ २१३ ॥ चतुष्कोणस्थनवकान्यपीत्यष्टोत्तरं शतम् । अष्टोत्तरशतोक्तैस्तु द्रव्यैरेवाभिपूरयेत् ॥ २१४ ॥ तैरेव देवतामन्त्रैरथ द्वादशकान्यपि । चतुर्दिक्षु क्रमादेभिर्द्रव्यैरद्भिश्च पूरयेत् || २१५ || नन्द्यावर्तं च धुर्धूरं कपित्थं च कदम्बकम् । माल्यङ्गश्चैव भद्रा च तद्वद् द्रावणबिल्वकम् ॥ २१६ ॥ मरुकं पद्मतुलसी मुण्डी कुरवकार्जके । मध्यद्वादशके प्राच्यां सोमकर्पूरवल्लिके ॥ २१७ ॥ कुब्जकं शतपत्रं च कर्णिकारं बकं तथा । श्वेतार्कमरुणागस्तिकुसुमं काञ्चनारकम् ॥ २१८ ॥ मल्लिकायुगलं रक्तकरवीरं च दक्षिणे । तमालं माधवी श्वतमन्दारं पाटलद्वयम् || २१९ ॥ गोक्षुरं भूकदम्बं चाप्यकोलस्य च पल्लवः । बीजपूरस्य कुसुमं लवङ्कस्य च पल्लवः ॥ २२० ॥ राजार्कः स्वर्णयूथ च प्रत्यग् द्वादशकस्य तु | श्वेतपल्लवपुष्पे द्वे श्वेतदुर्वा महामरी ॥ २२१ ॥ कच्चोरोशीरमुस्ताश्च पलाशकुसुमं ततः सितासितोन्मत्तपुष्पे शेफाली बृहती तथा ॥ २२२ ॥ मध्यद्वादशके सौम्ये द्रव्याणि स्युर्यथाक्रमम् । पार्श्वद्वादशकान्यष्टावापूर्य स्वच्छवारिभिः ॥ २२३ ॥ सचन्दनं हिरण्यं च पुष्पाण्यव्येषु निक्षिपेत् । अष्टोत्तरशतप्रोक्तै मन्त्रैस्तैर्नव कैः मात् ॥ २२४ ॥