पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

कलशभेदेन द्रव्यादिभेदा: ] उत्तरार्धे पञ्चाशः पटलः । एकादशानुवाकैस्तु रौद्रद्वादशकैः शिवम् । ऐन्द्रादिकैस्तु संस्नाप्य शिष्टद्वादशकेन तु ॥ २२५ ॥ ब्रह्मभिर्मध्यमं कुम्भं महत्या व्योमविद्यया । द्विपञ्चाशदधिकद्विशतस्य । कलश त्रिशतस्यापि हेमरत्नकुशाम्बुभिः ॥ २२६ ॥ मध्यकुम्भं समापूर्य तायकलशाष्टकम् । रत्नाष्टकेन तीर्थाद्भिः समापूर्यास्य नामतः ॥ २२७ ॥ अष्टोत्तरशतद्रव्यैस्तथैवापूर्य मन्त्रतः । तत्काणे नवकान्तःस्थपदानां तु चतुष्टयम् ॥ २२८ ।। शुद्धाद्भिः पूरयेत् तस्माद् बाह्यकाङ्गलकोणगात् । द्विपञ्चाशद्विशतवद् द्रव्यैर्मन्त्रैश्च दैवतैः ॥ २२९ ॥ पूरयित्वा तु तन्मध्यनवकानि त्रिकाणि च । द्वादशाष्टसंख्या हेमाम्भोभिः प्रपूरयेत् ॥ २३ ॥ त्रिशतस्य । ४९९ मष्टाधिकपञ्चशते मध्यकुम्भं तु पूर्ववत् । सपञ्चरत्नहेमाद्भिः समापूर्य यथाविधि ॥ २३१ ॥ बाझे विकारकुम्भांच तानवकाष्टके । मध्यत्रिकाष्टके चैन सद्वादशश ( तान्!तं) घटान् ॥ २३२ ॥ अष्टोत्तरशतद्रव्यैश्चतुर्भिश्चैव पूरयेत् । ताश्चतस्तु परितो नवकावरणद्वये || २३३ ॥ चत्वारिंशत्प्रसंख्यानि नवकानि भवन्ति हि । तेषां तु मध्यकुम्भेषु तावद्रव्याणि निक्षिपेत् ॥ २३४ ॥ शिष्टद्रव्यचतुष्केण कोणकुम्भांस्तु पूरयेत् । शिष्टांस्तु कलशान् सर्वाञ् शुद्धाम्भोभिः प्रपूरयेत् ॥ २३५ ॥ सहेमगन्ध कुसुमान् मूलेन तु यथाविधि । मध्यावश्यकुम्भैस्तु रुद्रेणैवाभिषेचयेत् ॥ २३६ ॥ तडाहो नवकैः सर्वैः क्रमांनारायणोदितैः । अध्याथ वल्लीभिरभिषिच्य क्रमेण तु ॥ २३७॥