पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

इशानशिवगुरुदेवपद्धतौ फलकाभिरय्रुग्माभिर्युग्माभिश्च सुरालये । कवाटं तु मनुष्याणां स्यादयुग्माभिरेव हि ॥ १२३ ॥ कवाटसन्धिर्दण्डान्तस्त्रिचतुर्भागवर्जितः । मध्यवर्जित एव्र स्यात् कथ्यते स्कन्धपट्टिका || १२४ ॥ तल्पव्यासद्वयव्यासा त्रिपादसमनीप्रका । नानारूपलताचित्रा चतुरश्रा तु निर्व्रणा || १२५ ॥ साष्टाश्रपट्टावयवा पार्श्वयोः पद्मभूषिता । स्यात् स्कन्धपट्टिका युग्मप्रवेशे दक्षिणाश्रिता ।। १२६ ॥ योगोच्छ्रितत्रिभागं वा चतुर्थांशमधस्त्यजेत् । शेषमूर्ध्वं कवाटादेर्मञ्जरीभिश्च पङ्कजैः ॥ १२७ ॥ वल्लीपत्रनरैर्नारीभूतहंसगजैरपि । तद्वत् सिंहादिभिर्व्यालङ्कुर्याद् यथारूचि ॥ १२८ ॥ योगावगाढयोज्यं स्यादूर्ध्वं चोपप्रतेः शिखा | भवेच्च तल्पविस्तारकर्णायामा त्वयुग्मके || १२९ ॥ परिघा स्यात् तथा नाहात् पाद: पादर्धतोऽपि वा । परिघापादयोस्तुङ्गं तद्दैर्ध्याद् द्विगुणं भवेत् ॥ १३० ॥ दण्डव्यासार्घतस्त्र्याशाद् बहलौ चापि विस्तृतौ । वे (ध ? द्ध) व्यौ परिघापादौ घातोपेतौ यथाबलम् ॥ १३१ ॥ दण्डायामत्रिपादेन विस्तृता चतुरश्रका | त्रिचतुर्भागतः स्थूला त्वेतल्पस्य चार्गला ॥ १३२ ॥ अयोदण्डेन चायामौ योगमध्याद् विहाय तु । अर्घाङ्गुलं तु बीध्नीयात् यथैव सुदृढं भवेत् || १३३ ॥ घटिकायामदण्डस्य व्यासो वेदांशवर्जितः । आयतश्चतुरश्रो वा वृत्तो वा स्याद् यथाबलम् ॥ १३४ ॥ त्रिचतुर्दण्डदीर्घं तदर्धार्धव्यासनाहकम् । बहिः पञ्चाननोपेतं कण्ठयुग्मं यथार्हतः ।। .१३५ ॥ १. 'सत्रि' ग. पाठ:. [क्रियावाद: ४. 'कस्वे यस्य' ग. पाठः, २, 'थलजे' ग. पाठः. ३. 'ढं' ख. पाठ: