पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति

५०० ईशानशिवगुरुदेवपद्धतौ पञ्चाशद्दर्भकूर्चेन शन्नइन्द्रादिना ततः । संप्रोक्ष्य स्नपयेच्चाद्भिः कुर्यान्नीराजनं ततः ॥ ३४० ।। शालिपिष्टादिविहितैर्हेमामत्रादिषु क्रमात् । देवाष्टमङ्गलैश्चान्यैर्लोकपालायुधैरपि ॥ ३४१ ॥ उच्चैः पिष्टप्रदीपैश्च दूर्वासिद्धार्थपङ्कजैः । दध्यक्षतैश्च सुन्यस्तैः पुंसा नीराजयेद् विभुम् ॥ ३४२ ॥ संगीतनृत्तवादित्रैः शङ्खकाहलगोमुखैः । तिमिलानकमेर्याद्यैर्निनदद्भिरनारतम् ॥ ३४३ ॥ वेदघोषश्च मूर्च्छद्भिर्जयशब्दादिमङ्गलैः । नीराज्य तद्वत् स्नपयेत् ततो मध्यघटेन तु ॥ ३४४ ॥ अभिषिच्याथ शुद्धेन वाससा परिमार्जयेत् । ततः सुसूक्ष्मैरहतैरौ(क्ष्णैः?र्णैः) कार्पासिकैरपि ॥ ३४५ ॥ परिघाप्य च मूलेन पाद्यं दद्यादथेशतः । हृदयेन मुखेष्वर्ध्यं नेत्रेणाचमनं तथा ॥ ३४६ ॥ दत्त्वा विभूषण हर्नानारत्नविचित्रितैः । मकुटाद्यैर्यथाशोमं पिण्डिकाभूषणान्तकैः ॥ ३४७ ॥ आभूषयेत् तु वक्त्रेण रूपिणाचामयेदपि(?) । चन्दनेन सुपिष्टेन सकर्पूरहिभाम्भसा ॥ ३४८ ॥ कुक्कुमागरुमिश्रेण लिम्पेद् गन्धेन वामतः । पुष्पैरपि च मालाभिरलङ्कुर्यादजाततः ॥ ३४९ ॥ असितागरुकर्पूर पूरैस्तु सितयान्वितैः । धूपयेच्छिखया शम्भुं दीपं दद्याच्च वर्मतः ॥ ३५० ।। सकर्पूरदशैदीपैः सुगन्धाद्यैः प्रदीपितैः । आरात्रिकमथास्त्रेण भ्रमयित्वावतारयेत् || ३५१ ॥ नैवेद्यमथ सुस्वादु सिद्धं कलशसम्मितैः । शालिजैस्तण्डुलप्रस्यैस्ततोऽर्थैर्वाप्यतोऽर्धतः ॥ ३५२ ॥ श्रेष्ठादिकं निवेद्यं स्यात् तद्युक्ताज्याधिकप्लुतम् । पायसं चाथ दध्यमं सहरिद्रं सुसाधितम् ॥ ३५३ ॥