पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ इत्यर्पयेद् बुभुक्षुश्चेन्मुमुक्षुरपि तत् तथा । त्वत्प्रसादेन कर्मेदं मास्तु मे नाथ ! बन्धकम् ॥ ३१७ ॥ इति देवस्य पादाब्जद्वये कर्म समर्पयेत् । इति ह निगदितोऽयं शैवसिद्धान्तसिद्धो दशशतकलशादिर्नन्दकुम्भावसानः । स्नपनविधिरुदारः श्रीमतश्चन्द्रमौले- रभिमतपुरुषार्थप्रार्थना कल्पवृक्षः || ३६८३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे स्नपनपटल: पञ्चाशत्तमः ॥ अथैकपञ्चाशः पटलः । अथ सूर्यादिदेवानां प्रतिष्ठा पूर्वमेव हि । शिवलिङ्गप्रतिष्ठायां समासात् सम्प्रदर्शिता ॥ १ ॥ कर्षणाद्युत्सवान्तं यत् प्रोक्तं कर्मात्र तत् समम् । तत्त्वमूर्त्यादिविन्यासक्रमः सर्वत्र वै समः ॥ २ ॥ सूर्यविघ्नेश्वरस्कन्दा हरनारायणस्तथा । दुर्गागौरीसरस्वत्यः शास्ता काली च मातरः || ३ || धामसु क्षेत्रपालञ्च शिवाङ्गत्वेन वा पृथक् | एते सर्वे प्रतिष्ठाप्याः पूज्याश्चैव पृथक् पृथक् ॥ ४ ॥ एतेषां मूर्तिमूर्तीशमन्त्रावरणभेदतः । प्रतिष्ठाद्यं समासेन यथावदथ कथ्यते ॥ ५ ॥ सूर्यस्य मन्त्राः पूजा च प्रागेव समुदाहृताः । तत्प्रतिष्ठाविधौ बेरं स्यान्मुख्यं दशतालतः ॥ ६॥ प्रतिमालक्षणोक्तैस्तु मानोन्मानादिभिर्युतम् । चित्रादिकं तद्वेमादिलोहरत्नशिलामयम् ॥ ७ ॥ तस्याधिवासने प्राग्वन्मण्डपे तोरणानि तु | चिभूतिर्बिमलस्तार आराध्यश्चेति पूर्वतः ॥ ८ ॥