पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ चतुर्भुजं घृताम्भोजं यजेत् सवरदाभयम् । ततस्तु फलशैर्देवमभिषिच्योक्तमार्गतः ॥ ५० ॥ दक्षिणाश्च प्रदेयानि दत्त्वा पूर्वोदितक्रमात् । ततो नित्यविधानेन विभवानुगुणेन तु ॥ ५१ ॥ पूजां प्रवर्तयेत् सम्यक् त्रिसन्ध्यं सोपचारकम् । सूर्यप्रतिष्ठाधिकारः । नित्योत्सवे तु सूर्यस्य द्वारस्थौ चण्डपिङ्गलौ ॥ ५२ ॥ लोकेशस्थानगास्त्वष्टौ ग्रहा: सोमादय: क्रमात् । मातरश्चैव दुर्गा च तेजश्चण्डश्च दिग्गताः || ५३ || अरुणो मण्डपस्या सप्तच्छन्दस्तुरङ्गमाः | स्वाख्याभिस्ते च पूज्याः स्युर्गायत्र्युष्णिगनुष्टुभः ॥ ५४ ॥ बृहती पङ्कित्रिष्टुब्जगती च यथाक्रमम्(?) । अन्तःस्था गोपुरद्वाःस्थौ पक्षौ शुक्लासितौ येजत् ॥ ५५ ॥ तथैव तद्बहिष्ठावृप्ययने दक्षिणोत्तरे । निक्षिप्यैषां बालें दत्त्वा बलिपीठाद् बहिः स्थितः ॥ ५६ ॥ आवाहयेद् बलिभुजः सर्वान् सूर्यगणान् गुरुः । ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः ॥ ५७ ॥ सूर्यपारिषदाः सर्वे गृदन्तु बलिमुत्तमम् । इति ततो द्वादशराशिम्यो यथास्थानं प्रदक्षिणम् ॥ ५८ ॥ मेषादिभ्यो बलिं दद्यान्मासेभ्यश्चापि तैः सह । मधुमाधवशुक्रेभ्यः शुचये नभसे तथा ॥ ५९ ॥ नभस्याय तथेषोर्जेसहोभ्यश्च ततः परम् । सहस्यायाथ तपसे तपस्याय बलिं क्षिपेत् ॥ ६० ॥ तत तु बलिपीठस्य परितोऽष्टदिशास्वपि । क्षिपेद् गणानामष्टानां स्वाख्या गणनमोन्तकम् ॥ ६१ ॥ गन्धर्वाधासुरगणाः पितृरक्षोगणास्ततः । नागा मरुद्गणास्तद्वद् यक्षभूतगणांस्तथा ।। ६२ । १. 'तिः' (?) ख. पाठः.