पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे त्रिपञ्चाशः पटलः । ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः । + + + + + + सर्वे गृह्णन्तु बलिमुत्तमम् ॥ ७३ ॥ अनेन तु स्कन्दगणान् सर्वानावाहयेदपि । ततस्तु बाह्यहारायामुन्माथादीन् गणेश्वरान् ॥ ७४ ॥ कोटिकोटिगणाध्यक्षानिष्ट्वा तेषां बलिं क्षिपेत् । उन्मायश्च प्रमाथश्च सुभासो भास्वरो मणि ॥ ७५ ॥ सुमणिश्च तथा ज्योतिज्वलाजिह्वस्तथाष्टमः । ततस्तु दर्शमूर्तिभ्यो बलिपीठे बलिं क्षिपेत् ।। ७६ ।। परिघो विकटो भीम उत्क्रोशो वज्रवल्कलौ । दण्डहस्तौ वर्धनश्च कुमुदो नन्दनस्तथा ॥ ७७ || स्कन्दसेनोऽथ दशमः पीठे पद्मस्य मध्यतः | नित्योत्सव विधिश्चैष तुल्यश्च स्यान्महोत्सवे ॥ ७८ ।। विशेषः कथ्यते तत्र मयूरं तु ध्वजे यजेत् । ओं मयूराय नमः | स्कन्दवाहनाय नमः । ततः स्कन्दगणान् सर्वान् प्राग्वदावाहयेद् गुरुः ॥ ७९ ॥ ओ ये भूताः स्कन्दसेनाद्याः स्कन्दपारिषदेवराः | ते तृप्यन्तु मुदं यान्तु तेभ्यस्ताभ्यो नमो नमः ॥ १० ॥ इत्यावाह्य स्कन्दगणान् प्रागाद्यष्टदिशास्वपि | कोटिकोटिगणेशाः स्युर्द्वात्रिंशत् स्युर्गणेश्वराः ॥ ८१ ॥ कुमुदः कुन्दरश्चाथ डम्बराडम्बरौ पुरः । वक्रोऽनुवत्रः सुमुखः सुव्रतो वहिदिग्गताः ॥ ८२ ॥ सत्यसन्धः सुप्रभश्च शुभकर्मा च लाङ्गली । याम्येऽथ नैऋते कालो बलश्चातिबलोडलसः ॥ ८३ ॥ सुवर्चश्वातिवर्चाश्च काञ्चनातिघनावपि । पश्चिमे त्वथ वायव्ये मेघमाली स्थिरस्तथा ॥ ८४ ॥ अतिस्थिर थोच्छूित चतुर्थस्त्वतिभिप्रियः । उदीच्यां मेघनादश्य संग्रहोन्नाथविग्रहाः ॥ ८५ ॥ ५२५