पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदवपद्धतौ दुर्गा च सोमं स्वाशासु चण्डसेनं च पूजयेत् । मूलचक्रवरदाभीतिमिष्ट्वा बलिं क्षिपेत् ॥ ७० ॥ भृणास्यं पाञ्चजन्यं च तीक्ष्णनेत्रं सुदर्शनम् | चतुरो गोपुरद्वारि संपूज्यैषां बलिं क्षिपेत् ॥ ७९ ॥ बलिपीठात् स्थितः प्राच्यामनेनावाहयेद् गणान् । वैष्णवाश्च ये ॥ ७२ ॥ आयान्तु पार्षदाः सर्वे शाङ्करा स्थिताः सर्वे जगद् व्याप्य गृह्णन्तु बलिमुत्तमम् । नतस्तु नन्दीशादिभ्यः कुमुदादिभ्य एव च ॥ ७३ ॥ द्वयोर्द्वयोः प्रतिदिशं मण्डलेषु बलिं क्षिपेत् । तद्यथा नन्दीशश्च महाकालो भूतनाथो महीधरः ॥ ७४ ॥ पर्वतेशो गुहेशश्च कालपाश कपालिनौ । कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥ ७५ ॥ शङ्कुकर्णः शङ्कुनेत्रः सुमुखः सुप्रतिष्ठितः । ओं नन्दीशकुमुदाभ्यां शङ्करनारायणपार्षदाभ्यां नम इति पूर्वस्याम् । इत्यामेयादिदिक्ष्वपि बलिं विकिरेत् । ततस्तु बलिपीठे तु भूतिदादिभ्य एव च ॥ ७६ ॥ शङ्खिने चक्रिणे चापि गदिने शाङ्गिणे तथा । पद्मिनेऽथो मुसलिने पाशिनेऽङ्कुशिने तथा ॥ ७७ ॥ कुमुदोर्वे नन्दकिने नमोहरिहरादिकम् । सेनायेति च पीठाब्जकर्णिकायां बलिं क्षिपेत् ॥ ७८ ॥ अत्रापि पूर्ववद् दिक्षु द्वाभ्यां द्वाभ्यां वालें क्षिपेत् । ओं भूतिदचक्रिभ्यां शङ्करनारायणपार्षदाभ्यां नम इत्यादिद्वन्द्वशब्दः । नित्योत्सवविधिस्त्वेष तुल्यश्चापि महोत्सवे ॥ ७९ ॥ विशेषः कथ्यते लेख्यो वृषार्धगरुडः पटे । पूज्यश्च स्यात् स्वनाम्नैव बलिं च विकिरेत् ततः ॥ ८० ॥ मन्त्रैस्तृतीयहारायां बिविधानां स्वनामभिः । भूतेशानां शाङ्कराणां वैष्णवानां च दिकूमात् ॥ ८१ ॥