पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ स्नपनं चाधिवासार्थ मण्डपे शयनक्रियाम् । वेद्यां कुम्भास्त्रनिद्राख्यमूर्तिकुम्भाष्टकार्चनम् ॥ २३ ॥ आत्मादितत्त्वब्रह्मादिविभागेषु न्यसेदथ । मूर्तीश्च क्ष्मादिकास्त्वष्टौ मूर्तीशा धारिकादिकाः ॥ २४ ॥ धारिका दीप्तिमत्युग्रा ज्योत्स्ना चिच्च बलोत्कटा । धात्री विभुश्च ज्ञानीं तु मूर्ती पीठे क्रियां न्यसेत् ॥ २५ ॥ माग्वन्नवसु कुण्डेषु मान्त्रिकेऽमौ विभाजिते । आवाह्य दुर्गामूलाङ्गैरात्मतत्त्वादिभिः क्रमात् ॥ २६ ॥ माग्वद्धुत्वा संस्पृशेयुः साचार्या मूर्तिसाधकाः । अथ प्रतिष्ठां लग्ने तु कुर्याद् युक्तपदे गुरुः ॥ २७ ॥ सप्तसप्तपदे गर्भे ब्रह्मादिषु पदेषु वै । शैली रत्नमयीं लौहीं दुर्गा तु शिववन्न्यसेत् ॥ २८ ॥ मृन्मय दैविके तद्वद् दारवीमथ मानुषे । मित्तावालेख्यगां दुर्गा प्रतिष्ठाप्य स्थिरं यजेत् ॥ २९ ॥ लग्ने कूर्मशिलायां तु शक्तिमाघारसीज्ञाताम् रत्नादिपञ्चचर्गांश्च न्यसेत् पीठं तथोपरि ॥ ३० ॥ पीठमध्ये क्रियाशक्ति पीठे बेरं च विन्यसेत् । बेरे ज्ञानात्मिकां मूर्तिं हंसं बजिं च तद्वृद्धि ॥ २१ ॥ स्वहृदम्भोजकुहरात् कुण्डलिन्यो समुद्रताम् । उत्थाप्य चिन्मयीं शक्ति हंससंपुटमध्यम् ॥ ३२ ॥ शक्तिबीजं ब्रह्मनाडपिदेनोर्चे खपङ्कजे | योजयेन्निष्कलान्तं तन्मन्त्रमुच्चारयन् सुधीः ॥ ३३ ॥ तस्माच्छाक्तं परं ज्योतिर्निष्कलान्तमुदीरयन् । आनीय पुष्पाञ्जलिना मूर्तिहृत्पङ्कजे न्यसेत् ॥ ४ ॥ इत्यमाबाद्य संस्थाप्य सैजिरोष्य च मूलतः । सभिषाप्यामृतीकृत्य चावकुण्ठ्य प्ररोच्य च ॥ ३५ ॥ १. 'न्याः', २. 'गाम्', ३. 'त' क. पाठ: ५४०