पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

ताधिकार:] उत्तरार्धे षट्पञ्चाशः पटलः । विधायाकारशुद्धिं च प्राम्वन्नयनमोक्षणम् । जलाधिवासनं ग्रामभ्रमणं रूपनं तथा ॥ २४ ॥ मण्डपेऽथ ततो वेद्यां शयने पञ्चधास्तृते । पञ्चभूतात्मके देवीं शाययित्वाभिपूजयेत् ॥ २५ ॥ रक्तपीताम्बराच्छन्नां ततः कुम्भास्त्रकं न्यसेत् | गौरीकुम्भं शिरःस्थाने निद्राकुम्भं च विन्यसेत् ॥ २६ ॥ परितो मूर्तिकुम्भेषु यामाद्याभिस्तु संयुतान् । ब्रह्मादीन् पञ्च गायत्रीं सावित्रीं च सरस्वतीम् ॥ २७ ॥ पीठे चैव क्रियाशक्तिं बेरे ज्ञानीं च विन्यसेत् | त्रिभागेष्वपि च न्यस्येत् तत्त्वं तत्त्वेश्वरान् क्रमात् ॥ २८ ॥ पृथ्व्याद्या मूर्तयः प्राग्वन्मूर्तीशा धारिकादिकाः । पृथक् क्रमेण हुत्वैभ्यः स्पृशेयुर्गुरुमूर्तिपाः ॥ २९ ॥ ततः प्रातः कूर्मशिलां लग्ने न्यस्येद् यथापुरम् । रत्नादिपञ्चवर्गांश्च पीठं चाथ स्वमूलतः ॥ ३० ॥ प्रतिमां स्थापयेत् पीठे हृत्पद्मेऽस्यास्तु चिन्मयम् | कुम्भात् तच्छक्तिबीजं तु विन्यस्य स्नपयेत् ततः ॥ ३१ ॥ रुद्रेण पवमानैश्च गौरी (रि ? मि) त्यादिनापि च । ततो मूलागायत्र्या मन्त्राध्वा स्याच्च तत्पदैः ॥ ३२ ॥ पदाध्वा स्याद् यथापूर्वं शेषाध्वानो यथापुरम् । ततः प्रधाननिद्रा ख्यमूर्तिकुम्भाभिषेचिताम् ॥ ३३ ॥ अर्ध्यायैस्तु यथापूर्वं पूजयेत् परमेश्वरीम् । तद्यथा- स्नात्वा प्रक्षाल्य चरणावाचम्य सकलीकृत ॥ ३४ ॥ विघ्नं गुरुं च संपूज्य सामान्यार्थ्यकरो गुरुः । जया च विजया द्वारि स्थिते क्षेत्रकरे भुवि ॥ ३५ ॥ गङ्गा च यमुना चोर्ध्वे द्वारश्रीर्मध्यगोपरि । ता इष्ट्वा क्षिप्तनाराचः प्रविश्यास्त्रं निघाय च ॥ ३६ ॥ ५४७