पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

५६० ईशानशिवगुरुदेवपद्धतौ दक्षिणाश्च प्रदेयानि दत्त्वा प्राग्वद् यथाविधि | पूर्वोक्तं फलमानोति वागीश्वर्याः प्रसादतः ॥ ८६ ॥ इत्थं प्रोक्तं यद् बृहत्तन्त्रगीतं दृष्टं बिम्बे यच्च देवोद्भवाख्ये । वागश्वर्यास्तन्त्रमेतत् समासादत्रैवोह्यं तच्च शैवानुसारात् || ८७ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे वागीश्वरीतन्त्रपटल: सप्तपञ्चाशः ॥ अथाष्टपञ्चाशः पटलः । अथ शास्तुः प्रतिष्ठाद्यं कथ्यते तन्त्रचोदितम् । मन्त्र श्वाप्यन्तनादौ तु नवमस्वरभूषितौ ॥ १ ॥ बिन्दुनादसमोपेतौँ नमश्शब्दस्ततो भवेत् । षष्ठाद्यं च सदीर्घोऽभिर्वायुर्गोत्रेपदं ततः || २ || नमोन्तो मूलमन्त्रोऽयं रुद्रार्णस्तारपूर्वकः । तारं षष्ठाच्चतुर्थं तु दीर्घोऽनुस्वारनादवान् || ३ || भूताधिपतयेशब्दो नमोन्तोऽस्यार्चने मनुः । रेवन्ताय ततः शास्त्रे गोप्त्रे च प्रभवे तथा ॥ ४ ॥ दीप्त्रे चैव प्रशास्त्रे च षडिमे प्रणवादिकाः । नमोन्ता जातियुक्ताः स्युः षडङ्गानि यथाक्रमम् ॥ ५ ॥ खड्गाय क्षुरिकायै च धनुषे च शराय च । हुं फडाद्या नमोन्ताः स्युः शश्त्रमन्त्रा यथाक्रमम् || ६ || चामतोऽस्य प्रभा देवी दक्षिणे सत्यकः सुतः । स्कन्दो गजाननश्चाथ शाम्चोऽथ मधुकस्तथा ॥ ७ ॥ पीठबायें समासीनास्तन्मन्त्राः स्वस्वनामभिः । गोप्ता च पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः ॥ ८ ॥ त्रिनेत्रः पः शूलभृद्र दक्षो भीमरूपस्तथाष्टमः | एतेऽष्टमूर्तयः शास्तु प्रयाद मेरन्विताः ॥ ९ ॥ तारादिका नमोन्ताः स्युस्त मन्त्राः स्वनामभिः । आर्यः शास्ता गुहासन्न: सेनानीभूतवल्लभः ॥ १० ॥