पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

मातृमन्त्रोद्धाराधिकार:] उत्तरार्धे एकोनषष्टितमः पटलः । अथ एकोनषष्टितमः पटलः । अथ मातृप्रतिष्ठाद्यं लिख्यते शुद्धपक्षतः । स्वच्छन्दादिषु यत् प्रोक्तं मातृतन्त्रेषु चैव हि ॥ २ ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । बाराही च तथेन्द्राणी चामुण्डी सप्तमी स्मृता ॥ २ ॥ तासां पूर्वापरासीनौ वीरभद्रश्च विराट् | याद्यक्षराणि हान्तानि शक्करीस्वरयोगतः || ३ || बिन्दुमन्त्यष्ट बाजानि खान्तं लम्बोदरस्य हि । तारं बजिं नमश्शब्दस्ततो भगवतीत्यपि ॥ ४ ॥ संबुद्ध्यन्तं स्वना( म्ना? मा)पि मातृमन्त्रादितो भवेत् । तदूर्ध्वतः क्रमान्मन्त्रा लिख्यन्तेऽत्र पृथक् पृथक् ॥ ५ ॥ ऋग्यजुस्सामाथर्वकमण्डलुकूर्चधारिणि ! नमोनम इति ब्रह्माणीमन्त्रः । देवि ! परशुधारिणि ! श्वेतरूपिणि ! महेश्वरि ! नमोनमः इति माहेश्वर्याः । शक्तिधारिणि ! मयूरवाहिनि ! कुक्कुटध्वाजनि ! कुङ्कुमवर्णिनि ! कौमारि ! नमो नमः कौमार्याः । शङ्खचक्रघारिणि ! गरुडवाहिनि ! वैष्णवि ! नमोनमः वैष्णव्याः । हलमुसलधारिणि ! दंष्ट्रिणि ! सूकरान (नि? ने !) सिंहवाहिनि ! वाराहि ! नमोनमः वाराह्या: । वज्रधारिणि ! गजवाहिनि ! श्यामवर्णिनि । नमोनमः इन्द्राण्याः | कपालधारिणि | नीलाम्बुवर्णिनि ! प्रेतवाहिनि ! हुङ्का- रिणि ! नमोनमः चामुण्ड्याः । वीरभद्रस्य तारं च स्वबीजं लकुलीश्वरः । पुरुषश्च चतुर्थ्यन्तः पक्षसूत्राग्निधारिणे ॥ ६ ॥ ध्रुवाय पतये योगरूपायेति पदत्रयम् । व्यापिने सर्वपूर्व तु वीरभद्रपदं ततः ॥ ७ ॥ चतुर्थ्यन्तं नमोयुक्तं वीरभद्रमनुः स्मृतः । तारं स्वबीजं चादौ स्याद् विघ्नेश्वरपदं तथा ॥ ८ ॥ गणाधिपतिशब्दश्च हस्तिवक्त्रपदं ततः । एते गणपतिः सर्वे चतुर्थ्यन्तो नमो मनुः ॥ ९ ॥ गणपतेर्मूलमन्त्रः । १. पण क, पाठः, २. 'न्ता' ख. पाठ: