पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

५७४ ईशानशिवगुरुदेवपद्धतौ प्ररोचनामृतीकारौ तद्द्वायत्र्या समाचरेत् । आयस्याथ परितंः परिवाराष्टंकं न्यसेत् || ९० ॥ कुम्भैरैन्यादिसंयुक्तैर भिषिच्य नियोजयेत् । उग्रसेनी घटस्थां तां बलिपीठेऽभिषेकतः मध्ये नियोज्य संस्थाप्य ततो विधिवद्र्चयेत् । तद्यथा स्नात्वा सन्ध्यामुपास्याथ सकलीकृतविग्रहः ॥ १२ ॥ विघ्नराजं च संपूज्य सामान्यार्थ्यकरस्ततः । द्वाराणि पावमानीभिः प्रोक्ष्यास्त्रेणार्ध्यवारिभिः ।। ९३ ॥ कवाटोद्घाटनं कृत्वा द्वारपालांस्तु पूजयेत् । रक्षोहणं वलगहनं पूर्वद्वारे तु पूजयेत् ॥ १४ ॥ सुमुख: कालदण्डश्चाप्यतिथिर्मुदितस्तथा । सकलः शुक्तिकर्णश्च याम्यादिद्वारपाः स्मृताः ॥ ९५ ॥ प्रागादिद्वारनामानि प्रमोदन्यभया तथा । शान्तिः शुभकरी चैताः पूजयेत् स्वस्वनामभिः || ९६ ॥ करालीं कामुकां चैव सुभगां दानीमपि । गगनां ह्रादनीं चाथ कौबे (रीं? य) विष्फुलिङ्गनीम् ॥ १७ ॥ विरूपाक्षीं च पूर्वादिद्वारेषु द्वन्द्वशो यजेत् । नाराचमन्तः क्षिप्त्वान्तः प्रविश्यास्त्रं निघाय तु ।। ९८ ।। वास्तुब्रह्मासनानीट्वा सूपविष्टोऽर्ध्यमर्चयेत् । पञ्चशुद्धीविधायाथ तिलकी पुष्पशेखरः ॥ ९९ ॥ आधारशक्तिं च ततः परेतासनपङ्कजे । सगुणत्रयसूर्यादि बिम्बबिम्बाधिपान् यजेत् ॥ १०० ॥ सुन्दर्याधास्तु योगिन्यः प्रागाद्यब्जदंलाप्रगाः । सुन्दरी शाखिनी चाथ विषकण्ठी वसुन्धरा || १०१ ॥ योगिन्यमृतपूर्वा च घातकी च ततः परम् । वेताली मातृसेना चेत्येताः पूज्याः स्वनामभिः ॥ १०२ ॥