पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे द्वात्रिंशः पटलः । नन्द्यावर्ताकृतिच्छिद्रं नन्द्यावर्ताख्यजालकम् । वेदिकाद्विगुणोऽध्य समो वा स्याद् गलोदयः ॥ ३२ ॥ भित्तिविस्ताररामांशाद् वेदिकावेशनं भवेत् । श्रीवावेशस्तदुवै स्याच्छरांशोनोऽपि तत्समः || ६३ ॥ मृणालिकावक्रपादभूतहंसमृगैरपि । म्यालनाट्यकथाभिर्वा गलभूषणमाचरेत् ॥ ६४ ॥ अथ कण्ठार्धमानेन शिखरं वर्तयेत् समम् । कण्ठाद् द्विदण्डमानेन भवेच्छिखरनिर्गमः ॥ ६५ ॥ निर्गमाद् वर्तना बाह्ये वर्तयित्वा द्विदण्डतः । स्तूप सकुम्भां कुर्वीत यथैव शिखराकृति ॥ ६६ ॥ शिखरस्य च संस्थानमष्टषा तव कथ्यते । चतुरश्रमायताओं वृत्तं वृत्तायतं तथा ॥ ६७ ॥ शालाकारं षडश्रं चाप्यष्टाअं षोडशाश्रकम् । इत्यष्टौ शिखराका रास्तेषामथ निगद्यते ॥ ६८ ॥ अर्धमौलिसभाप्रमुख पाट्टकाकारै प्रस्तरच्छत्रशीर्षगृहापण्डिहस्तिनुण्डका - दोनो पाञ्चालादयोऽष्टौ लुपा भवन्ति । दण्डिकोत्तरविस्तारे पञ्चाद्वसप्तत्रि- चतुरे कादशपञ्चत्रयोदशषट्पञ्चदश सप्तदशाष्टव्या सादर्धोदयादीनि (!) क्रमेण पाश्चालवैदेहमागघकौरब कौसल शौरसेनगान्धारावन्तिकानि भवन्ति । विस्तारार्धोच्चमावन्त्यं तद्व्यामिश्रं तु नामतः | तहूयं द्वयधा भक्तमेकद्वित्र्यंशकोऽपि च ॥ ६९ ॥ चतुःपञ्चकषट्सप्तभागाधिक्यात् क्रमेण तु । भवन्ति शिखरोच्चानां नामान्यपि च सप्तधा ॥ ७० ॥ कालिङ्गकाश्यवाराटकोडकानि च शौण्डिकम् । काश्मीरं चैव गाङ्गेयं शिखराणि पृथग् विदुः ॥ ७१ ॥ एतानि दैवधिष्ण्यानामर्धवेधेतरन्नृणाम् । सर्वत्र चापि स्तम्भा वा हस्तवंशतुला अपि ॥ ७२ ॥ १. 'रळांल शी', २. 'शषद्' ग. पाठः, ३२५