पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

५८० ईशानशिवगुरुदेवपद्धतौ एवं विशुद्धं खलु मातृतन्त्रं प्रोक्तं प्रतिष्ठादिकमत्र सम्यक् । पूजामहाशान्त्यवसानमेतन्निर्दिष्टशवानुगुणं विधेयम् ||१६८ । इति श्रीमदीशानशिव‌गुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे मातृतन्त्रपटलो नामैकोनषष्टितमः ॥ अथ षष्टितमः पटलः । अथातः क्षेत्रपालस्य प्रतिष्ठाद्यं निगद्यते । प्रोक्तशबानुसारेण कर्मात्रापि समूहयेत् ॥ १ ॥ अन्त्यो मनुःस्वरोपेतो बिन्दुनादविभूषितः । तारादिरस्य बीजं स्यात् क्षेत्रपालपदं ततः ॥ २ ॥ चतुर्थ्यन्तं नमोन्तोऽयं मूलमन्त्रो नवाक्षरः । होमे स्यादभिजायान्तो बीजं दीर्वैः स्वरैर्युतम् ॥ ३ ॥ जातियुक्तानि चाङ्गानि षडस्त्रान्तान्यनुक्रमात् । मालामन्त्रोऽपि तस्यैव तारः शक्तिश्च याष्टमः साभिषट्कस्वरो दण्डी रेमुकावतरेति च । एकादशस्वरेणान्त्यं पञ्चमादिहुताशयुक् ॥ ५ ॥ तत: पालमहाशब्दौ बलेति कपिलद्वयम् । जटाभारभासुरोऽन्ते ज्वालामुखपदं भवेत् ॥ ६ ॥ (गन्ध) पुष्पधूपदीपबलिपूजां गृहाण च । भैरवेति पदान्ते स्याद् रूपेणेति पदं ततः ॥ ७ ॥ तरुशब्दो मुरुपदं खः फट्कारपदानि च । अट्टहासपदस्यान्ते डामराधिप इत्यपि ॥ ८ ॥ पञ्चमादिश्च येकारः स्वाहान्तो मन्त्र ईरितः । पूजामनेन कुर्वीत जपांदिः सिद्धिदो भवेत् ॥ ९ ॥ तारादिरथ तस्यैव बलिमन्त्रोऽपि कथ्यते । एहिशब्दो धुकारश्च तुरुवज्रहनास्त्रयः ॥ १० ॥ विनाशब्दश्च वीप्सान्तं महारवपदं तथा । क्षेत्रपालपदं गृह्ण गृह्णत्युक्त्वाग्निजायया ॥ ११ ॥