पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षेत्रपालप्रतिष्ठाधिकारः] बलिमन्त्रः । उत्तरार्धे षष्टितमः पटलः । तारं शक्तिश्च वटुकश्चतुर्थ्यन्तस्ततः परम् । आपदुद्धारणं प्राग्वत् कुरुयुग्मं ततोऽपिच ॥ १२ ॥ बटुकः स्याच्चतुर्थ्यन्तः शक्तिबीजं च तन्मनुः | द्वाविंशत्यक्षरो मन्त्रो जारिष्टसिद्धिदः ॥ १३ ॥ कनिष्ठदशतालेन क्षेत्रपाल तु कारयेत् । अञ्जनाभं विवृत्ताक्षं ज्वलितोर्ध्वशिरोरुहम् ॥ १४ ॥ युवानं सुमहाकायं रक्ताकल्पं दिगम्बरम् | स्पष्टदंष्टोत्कटमुखं स्फुरन्नानाविभूषणम् ॥ १५ ॥ सौवर्णकिङ्किणीघण्टामालाबद्धकटीतटम् । शिञ्जत्कनकमञ्जीरभूषिताङ्घ्रिसरोरुहम् || १६ || ऋज्वायतस्थिराकारं हेमपीठाम्बुजे स्थितम् । चतुर्भुजं वाष्टहस्तं द्विभुजं वापि कारयेत् ॥ १७ ॥ कपालं च त्रिशूलं च पाशं डमरुकं करैः । अधश्चोर्ध्वं च बिभ्राणं कुर्यादेवं चतुर्भुजम् ॥ १८ ॥ शूलं खड्गं च खट्वाङ्गं बिभ्रड्डमरुकं तथा । दक्षिणेऽथ कपालं च घण्टां च सशरं धनुः ॥ १९ ॥ पाशं चाष्टभुजः कार्यः प्रोक्तलक्षणलक्षितः । कपालं च गदां बिश्रद् द्विभुजो वामदक्षिणे ॥ २० ॥ अष्टवर्मकप्रख्यो नीलकुञ्चितमूर्धजः । अलकालङ्कृतःस्पष्टदंष्ट्राङ्कुरमुखाम्बुजः ॥ २१ ॥ रक्तवर्णोऽथ वटुकनाथः क्षेत्राधिपो ह्ययम् । अथवा उक्तञ्चान्यैः - व्यालम्बाअजटाघरं त्रिणयनं नीलाञ्जनाद्रिप्रभं दोर्द्वन्द्वात्तगदाकपालमरुणसम्गन्धभूषोज्ज्वलम् । घण्टामेखलघर्धराध्वनिमिलज्झाङ्कारभीमं विभुं बन्दे चित्रभुजङ्गकुण्डलघरं तं क्षेत्रपालं सदा ॥ २२ ॥ प्राग्वत् षोडशपादः स्यादधिवासनमण्डपः ॥ २३ ॥