पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

५८२ ईशानशिवगुरुदेवपद्धतौ शमो विभूमिः सुवलश्चारोगस्तोरणाः क्रमात् । हेरुक स्त्रिपुरान्तश्चाप्यग्निर्वेताल एव च ॥ २४ ॥ अग्निजिह्वः करालश्चाप्येकदंष्ट्रस्तु सप्तमः | भीमरूपोऽष्टमस्त्वेतान् द्वारकुम्भेषु पूजयेत् ॥ २५ ॥ सारमेयध्वजाश्चाष्टावैन्द्राग्नेयादिनामभिः । पूज्याः स्युरथ पुण्याहविकिरक्षेपपूर्वकम् ॥ २६ ॥ कुम्भे क्षेत्रपतिं प्रोक्तमूर्ति कृष्णाश्ववाहनम् । वर्धन्यां तच्च शूलास्त्रं स्त्रीरूपं सरमागतम् ॥ २७ ॥ इष्ट्वा तद्भ्रमणादूर्ध्वे मध्यकुण्डाहितानले । आवाह्य क्षेत्रप प्राग्वद्धुत्वा च समिदादिभिः ॥ २८ ॥ कुर्यादाकारशुद्धिं च तथा नयनमोक्षणम् । तथा ब्धिवसनं ग्रामभ्रमणं च प्रवेशनम् ॥ २९ ॥ मण्डपे शयनं वेद्यां मूलकुम्भास्त्रपूजनम् । निद्राकुम्भं त्वथ न्यस्येद् दिक्षु मूर्तिघटानपि ॥ ३० ॥ अनलश्चाग्निकेशश्च कालो घण्टारवस्तथा । महाक्रोधः पिङ्गलाक्षः सप्तमः पिशिताशनः ॥ ३१ ॥ ऊर्ध्वकेशोऽष्टमस्त्वेतान् स्वाख्याभिः कुम्भगान् यजेत् । आत्मादितत्त्वतत्त्वशान् मूर्ती: पृथ्व्यादिकास्तथा ॥ ३२ ॥ मूर्तीशानसिताङ्गादस्त्रिषु भागेषु विन्यसेत् । असिताङ्गो रुरुब्चण्डः क्रोधब्धोन्मत्त एव च ॥ ३३ ॥ कपाली भीषणश्चैव संहारश्चाष्ट मूर्तिपाः । एते भैरवशब्दान्ताश्चतुर्थ्या नमसान्विताः ॥ ३४ ॥ जानुकण्ठशिरोन्तेषु न्यस्याः स्युः प्रतिखण्डकंम् । तत्तन्मन्त्रै घृतं हुत्वा स्पृशेत् सिञ्चच्च कुम्भकैः ॥ ३५ ॥ ज्ञानशक्तिं न्यसेदू बेरे क्रियां पीठेऽर्चयेदपि । नृत्तगीतादिभिः श्यामामतिवायोदिते रवौ ॥ ३६॥ स्नात्वा निर्वर्त्य सन्ध्याद्यं लग्ने कूर्मशिलां न्यसेत् । मानुषे तु पदे तस्यां वर्गान् रत्नादिकान न्यसेत ॥ ३७ ॥