पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षेत्रपालोत्सवविधिः] उत्तरार्धे पष्टितमः पटलः मातरः क्षेत्रचण्डश्च स्थितस्तेभ्यो बलिं क्षिपेत् । गोपुरद्वारि सौम्याय चोग्राय च बलिं क्षिपेत् ॥ ६४ ॥ बहिर्निर्गत्य पीठाग्रे स्थित्वा त्वामन्त्रयेद् गणान् । ये समस्तं जगद् व्याप्य तिष्ठन्ति वलिकाङ्क्षिणः ॥ ६५ ॥ क्षेत्रपालगणाः सर्वे गृह्णन्तु चलिमाहृतम् । इति । ततोऽष्टदिक्षु पूर्वोक्ता हेरुकाद्याः स्थिताः क्रमात् ॥ ६६ ॥ तेभ्यो निक्षिप्य तु बलिं पीठस्य परितः क्रमात् । स्थित्वा षोडशं भूतेशाः क्षेत्रसेनश्च मध्यतः || ६७ ।। अपरोऽथापचश्चेन्द्रमूर्तिरीशान एव च । उग्रश्चाप्यूर्ध्वबाहुः स्यादृषभस्त्वृभवस्तथा ॥ ६८ || पीठस्य परितस्त्वेतेऽतश्चोर्ध्वे पद्मपत्रगाः | असंभवोथनूजन्मा एकदंष्ट्रस्ततः परः (?) ॥ ६९ ॥ ऐरावतो ह्योघबलश्चौषधेशो जनप्रभः । अस्संभवक्षेत्रपालसेनसंज्ञश्च मध्यमः ॥ ७० ॥ नित्योत्सवे विधिश्चैष तुल्यच स्यान्महोत्सवे | विशेषः सारमेयाङ्कं ध्वजमुच्छ्रित्य पूजयेत् ॥ ७१ ॥ ओं सारमेयाय नमः । ओं कुंक्कुराय नमः |ओं क्षेत्रपालवाहनाय नमः लोकेशस्थानमूर्तीनां बलिदानादनन्तरम् । ओं प्राचि क्षेत्रपालस्य येभूता वै पुरस्सदः ॥ ७२ ॥ इत्याद्यैः पूर्ववन्मन्त्रैस्तत्तद्विक्षु बलिं क्षिपेत् । ततस्तृतीयहारायां हेरुकाद्या वृतेर्बहिः ॥ ७२ ॥ चत्वारस्तु प्रतिदिशं स्थितास्तेभ्यो बलिं क्षिपेत् । कम्बली च खरो गन्धप्रियो घण्टारवत्तथा ॥ ७४ ॥ ङकारमूर्तिश्चण्डश्च छन्दचारी जटाधरः | शङ्कारमुखरो ओङ्गष्टङ्कारी उमयस्तथा ॥ ७५ || 'भे' ख. पाटः,