पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिव ्गुरुदेवपद्धतौ संक्षाल्यास्त्रेण संस्कृत्य नैवेद्यं चरुपाकवत् । नवाक्षतांश्च प्रक्षाल्य धवलानस्त्रमन्त्रतः ॥ १६ ॥ गुलक्षीरमधून्मिथान् मूलाङ्गैरभिमन्त्रितान् । सुमुहूर्ते तु सम्प्राप्ते तण्डुलांश्च नवं चरु ॥ १७ ॥ सूर्यविघ्नेशयोः पूर्व देवायाथ निवेदयेत् । परिवारसुरेभ्यश्चाप्यमौ साज्यं जुहोति च ॥ १८ ॥ मूलेनाष्टोत्तरशतं मूर्त्यज्ञानां दशांशतः । तण्डुलैश्च नवान्नेन चौषधीभ्यः स्वनामतः ॥ १९ ॥ सोमाय सुप्रभायै च हुत्वा पूर्णां जुहोति च । तच्छेषतण्डुलान् दद्यान्नृपादिभ्यो यथाक्रमम् ॥ २० ॥ आचार्याय च शिष्येभ्यो विप्रेभ्योऽर्थिभ्य एव च । लिङ्गिभ्यः परिवारेभ्यस्ततो भूतबालें क्षिपेत् ॥ ११ ॥ नवनैवेद्याधिकारः । कार्तिक्यां पौर्णमास्यां तु कृत्तिकासु विशेषतः 1 कुर्याद् दीपोत्सवं शम्भोरन्येषां चासुराद्वेषाम् ॥ २२ ॥ तद्वदाश्वयुजे कृष्णपञ्चदश्यां तु फाल्गुने । प्रोक्तमुत्तरफल्गुन्यां विषुवे चायनद्वये ॥ २३ ॥ पौषे पुष्येऽथ चित्रायां चैत्रे चन्द्राग्निदैवते । वैशाखे चापि कुर्वीत महोत्सवदिनेष्वपि ॥ २४ ॥ सप्ताहाद् वाथ पञ्चाहात् पूर्वं कृत्वारार्पणम् । दीपवृक्षांस्तु परितः ससारान्च्छोमनानृजून् ॥ २५५ प्रासादकण्ठतुल्याचान् द्वित्रहस्तान्तरस्थितीन् । उच्छ्रित्य हाराबाह्ये तु तेषामग्र निवेशितैः ॥ २६ ॥ वंशानुवंशबन्धाद्यैर्लुपोर्ध्वाच्छादनान्वितम् । कीलयेत् तेषु कीलांस्तु द्वादशाङ्गुलकान्तरान् ॥ २७ ॥ त्रिपञ्चका(दि द्रि)जगतीरुद्रनन्दर्षि सम्मितान् । मुख्यामुख्यादीनि चान्तीपमालावलम्बनात् ॥ २८ ॥