पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे द्वात्रिंशः पटलः । शालादिषु च रङ्गेषु सोपानं प्रमुखं स्मृतम् । पार्श्वयोर्मुखसोपानमन्यत्र परिमण्डयेत् || ८५ || सोपानम् । सर्वेषां च भवेद् धाम्नां सञ्चितं चाप्यसञ्चितम् । उपसश्चितकं चेति लिङ्गं पुंस्त्रीनपुंसकम् ।। ८६ ॥ शिलाभिरिष्टकाभिर्वा कृतं सञ्चितसंज्ञितम् । कपोतादिशिरोयुक्तं पुँल्लिङ्गं नाम यद् घनम् || ८७ || ऐष्टकं दारुजं वापि भोगभूम्यङ्गसञ्चितम् । असञ्चिताख्यं स्त्रीलिङ्गं विमानं तदुदाहृतम् ॥ ८८ ॥ इष्टकादारुभिर्मिश्रमघनं च धनं कचित् । उपसश्चितकं षण्डं भोगाभागाङ्गसंयुतम् ।। ८९ ।। द्वारस्योभयपार्श्वे वा द्वारपालगुहा भवेत् । छिद्रं कुर्यादधश्चोर्ध्वे बाह्ये नालं प्रयोजयेत् ॥ ९० ॥ जगत्यङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् । आसङ्कृत्यङ्गुलं नालस्यायामः पञ्चषा स्मृतः ॥ ९१ ॥ मयोऽष्टाङ्गुलमारभ्य द्विद्वयङ्गुलविवर्धनात् । नौलं षोडशमात्रान्तं पञ्चधेति जगाद ह || ९२ ॥ समं त्रिपादमर्षे वा खनंच्छिद्रं तु मध्यमे | त्रिचतुष्पञ्चतन्मात्रं तारं तत्समनिकम् ॥ ९३ ॥ मूलात् पञ्चत्रिभागं स्यादञं धाराभिरन्वितम् । सिंहवक्त्रेण घटितं द्राङ्नतामं तु मूलतः ॥ ९४ ॥ प्रासादस्योत्तरे मध्ये नालमेवं प्रकल्पयेत् । अन्तःस्थपीठनालस्य समं वा बाह्यनालकम् ॥ ९५ ।। बिस्तारायामतः कुर्याद् भूषयेच यथोचितम् । नाललक्षणम् । मण्डपस्याप्यधिष्ठानं प्रासादोक्तं यदैव तत् ॥ ९.१ ।। UTTA २. 715: ३२७