पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति

सपिण्डीकरणाधिकारः] उत्तरार्धे द्विषष्टितमः पटलः । एकोद्दिष्टं विधायैवं सोदकुम्भं तु भोजनम् । एकोद्दिष्टविधानेन दद्याच प्रतिवासरम् ॥ ७० ॥ मा(से?स्ये) कं मासिकं तद्वत् त्रैपक्षं च त्रिपक्षके । प्रतिमासं तथा श्राद्धं पिण्डानपि च निर्वपेत् ॥ ७१ ॥ न्यूनषाण्मासिकं चाथ न्यूनसंवत्सरं तथा । मासिकान द्वादश श्राद्धैः ++ पिण्डांश्च षोडश || ७२ ॥ दद्यात् संवत्सरान्ते तु सपिण्डीकरणं स्मृतम् । तत्र सङ्कल्प्य पूर्वेधुर्विशिष्टान् वरयेद् द्विजान् ॥ ७३ ॥ स्नात्वाम्यस्मिन्दिने भक्तं सापूपव्यञ्जनादिकम् । संसाध्य शुचिभिः स्नातैः ब्राह्मणैश्चरुपाकवत् ॥ ७४ । दक्षिणोत्तरयोः कृत्वा स्थण्डिले गोमयाम्बुभिः । स्वार्मिं दक्षिणतस्तद्वदुत्तरे लौकिकानलम् || ७५ ॥ आदाय विश्वेदेवार्थ ब्राह्मणौ प्राङ् निमन्त्र्य तु । पादशौचादिकं कृत्वा प्राङ्मुखाबुपवेशयेत् ।। ७६ ।। क्षणं कृत्वा सदर्भेषु क्षिप्त्वाम्भस्तत्करेष्वथ | यवाम्बुना संपाद्य सुधां स्मृत्वा तु निक्षिपेत् ॥ ७७ ॥ विश्वेभ्यो देवेभ्यः स्वधा नमः स्वाहेति । तदनु निमित्तार्थं द्विजं योग्यं वरयित्वा तु पूर्ववत् । पित्रे पितामहायाथ तत्पित्रे च द्विजास्त्रयः || ७८ ॥ स्त्री चेन्मात्रे च तन्मात्रे तन्मात्रे च द्विजत्रयम् । सर्वे वंशश्रुताचारसंपन्नाः शिवतत्पराः ॥ ७९ ॥ तान् संपूज्य तदन्नाद्यं द्विधा सर्वे विभज्य तु । देवांशकल्पितं यत् तत् पात्रे क्षिप्त्वाभिघार्य तु ।। ८० ॥ अनखाङ्गुष्ठतस्ताभ्यां विश्वेदेवेभ्य इत्यपि । स्वाहान्तं दर्शयेच्याथ प्राचीनावीतमुहन् || ८१ ॥ तथै(व नि ? वाप)हताद्येन, किरेत् ससिकतांस्तिलान् । उदीरतामवरतः पितरश्शब्दसंयुतान् ॥ ८२ || ५९७