पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे ईशानशिवगुरुदेवपद्धतौ प्रवर्तयेद् यथापूर्वं पू(ज? जा) यामुत्सवादिकम् । आवाहितशिवस्याग्नेर्निर्वाणे पूर्ववत् क्रमात् ॥ ८१ ॥ (आधोयिज्य) जुहोत्याज्यं त्वन्नो अग्न्यादिना पुनः । समित्तिलचरूंश्चास्त्रात् कृष्णादष्टसहसकम् || ८२ ॥ जयादिनिष्कृत्यन्तं तद् यथापूर्वी प्रकल्पयेत् । अनावाहित शिवे वोद्वासितशिवे वामौ निर्वाणे पूर्वोदितमन्त्रद्रव्यैः प्रत्येकं मष्टोत्तरशतं हुत्वा गुरुमूर्त्तिधरादिभ्यो हिरण्यं दक्षिणां दद्यात् । शिवेऽग्नि + + नं स्पृष्ट्वा यदि स्युः शिववहयः ॥ ८३ ॥ जुहोति पूर्वमन्त्रायैः क्रमाद् विविचयेऽग्नये । लौकिकाग्नेर्देवाग्नेर्वा संसर्गे शुचयेऽनये ॥ ८४ || पूर्वद्रव्यमन्त्रैर्जुहोतीति यावत् । शावसूतकिशूद्रायैः स्पृष्टेऽमौ च प्रमादतः । अशुद्धद्रव्यसम्पर्के + + जन्तौ सहस्रकम् ॥ ८५ ॥ समिधां जुहुयात् साज्यं पायसं च तिलांस्ततः । सिद्धार्थांश्च चरून् दुर्वाः प्रत्येकं तु शतं शतम् ॥ ८६ ।। मूलेनाङ्गैर्दशांशेन विद्येशेभ्यः सकृत् सकृत् । अस्त्रेभ्यश्च तथा हुत्वा रक्तान्नेन बाले निशि ॥ ८७ ।। विकिरंदुक्तमार्गेण नृतगीतादिमङ्गलैः । एवं कृत्वास्त्रयागं तु सविशेष शिवं यजेत् || ८८ ॥ सर्वशान्तिर्भचेत् तत्र तद्वत् सर्वत्र मङ्गलम् । अस्त्रयागाधिकारः । इत्थं हि सर्वदेवानां प्रायश्चित्तं पृथक् पृथक् ॥ ८९ ॥ शुद्धिं च दोषशान्ति च स्वस्वतन्त्रैः समूहयेत् | म्वस्वतन्त्रोदितैश्चापि समित्प्रभृतिभिस्तथा ॥ ९० ॥ जुहुयाद् दोषशान्त्यर्थं स्वस्वमस्त्रं च पूजयेत् : स्नपनं च यथापूर्वे कृत्वा संपद् विवर्धते ॥ ९१ ॥