पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे चतुषष्टितमः पटलः । लौहं तदेव तु पुनः प्राग्वत् कृत्वा सलक्षणम् । प्रतिष्ठाप्याचयेत् कुर्यादालये नूतनं पुनः ॥ ४२ ॥ मृत्सुधाप्रतिमादीनि वर्णाद्याधानतः पुनः । नूतनान्युक्तमार्गेण प्रतिष्ठाप्य तु पूजयेत् || ४३ ॥ पिण्डिकैव यदा दुष्टा त्यक्त्वा तामपरां पुनः । अधिवास्य यथापूर्वी मूललिङ्गं नियोजयेत् ।। ४४ ।। मूललिङ्गे तु निप्पन्ने प्राग्वद् देव(ग्रमण्डपे ! कृत्वाधिवासनाद्यं तु स्थापयेद् गर्भमन्दिरे ।। ४५ ।। बाललिङ्गस्थितं देवं प्राग्वत कुम्भेऽधिरोप्य तु | स्थापिते (बा ? मू)ललिङ्गे तु पूर्ववत् सन्नियोजयेत् ॥ ४६ ॥ प्रासाद एव जीर्णश्चेत् तस्योद्धारोऽथ कथ्यते । प्रासादमन्त्रान् सर्वोस्तु समाहृत्य यथाक्रमम् || ४७ || पूर्वोक्तेन क्रमेणैच खड्गे संयोज्य पूजयेत् । प्रासादे तु सुनिष्पन्ने तन्मन्त्रात् पूर्ववत् क्रमात् ॥ ४८ ॥ खड्गादादाय संयोज्य संप्रोक्ष्य स्नपयेच्छिवम् । प्रतिष्ठातो दशगुणां जीर्णोद्धारे तु दक्षिणाम् ॥ ४९।। दयान्मूर्तिघरेभ्यश्चाप्याचार्याय ततोऽधिकम् । विप्रेभ्यश्चैव लिङ्गिभ्यस्तक्षभ्योऽर्थिभ्य एव च ॥ ५० ॥ तद्वत् कर्मकरादिभ्यो दद्याद् देयांस्तु पुष्कलान् । लिङ्गे प्रतिष्ठिते यद् वा प्रासादकरणे फलम् || ५१ ।। जीर्णोद्धारे कृते तस्माद् द्विगुणं लभते फलम् । इत्थं धर्मोद् विशिष्टाजगति तनुभृतां भोगमोक्षोपलव्ध्यै विद्यादेहस्य शम्भोर्वदनसरसिजव्यक्तविश्वागमार्थैः । नित्याद्यं कर्मचक्रं सविधिकमखिलं यत्र दृश्यं यथा च ज्जीर्णोद्धारावसानं सुरगुरुविबुधस्तं क्रियापादमूचे ॥ ५२ ॥ इति श्रीमदोशानशिवगुरुदेवपद्धती सिद्धान्तसारे उपरिभागे क्रियापादे जीर्णोद्धारपटलः चतुष्षष्टितमः || समाप्तः क्रियापदः ।। जीर्णोद्धारविधि:]