६१८ ईशानशिवगुरुदेवपद्धतो देहे चेत् प्रीयते कश्चित् प्रीयते नरकेऽपि सः । यद्धाव्यज्ञानिभिर्देहे सुखबुद्धयात्र भण्यते ॥ २४ ॥ शब्दादीन्द्रिय सौख्यान्यप्यन्वयव्यतिरेकतः । असाराणि यथागीतं मत्तोन्मत्तप्रलापवत् || २५ || बादयन्तश्च दृश्यन्ते यथोन्मत्ता विकुर्वते ।
पौत्र्यं तथोचावेरुपाध्यन्तरसङ्गमात् ॥ २६ ॥
वादे यथापूयमूत्रादेर्निर्गमात् सुखम् । पामकण्डूति सौख्यं वा तत्तुल्यं सुरते सुखम् ॥ २७ ॥ चक्षुरिन्द्रिय सौयं यन्नृत्तकान्तादिदर्शने । उन्मत्तचेष्टितान्नृत्तं न किञ्चिदपि हीयते ॥ २८ ॥ स्वक्षी सुनासा सुमुखी सुदतीत्यादिदर्शने | सौख्यं त्यगस्थिमांसादौ कतरत् स्यान्मनोहरम् ॥ २९ ॥ आस्वाद्येषु पदार्येषु रसनेन्द्रिय चापलात् । क्षुतृण्णिवृत्त्या सौहित्यं दुःखापायो न तत् सुखम् ॥ ३० ॥ निद्रादुःखं यदि लमेत् सौख्यं स्वापे सुखं यथा । तदात्मसुखमुद्दिष्टं करणानां तु संहृतौ ॥ ३१ ॥ येष्वपि सुगन्धेषु यत्नात् प्राप्येषु दृश्यते । अयत्नेन वनादौ च प्राप्तुं तच्छक्यते सुखम् ॥ ३२ ॥ गर्भवासे च जनने बाल्ये वास्य कुतः सुखम् । अस्वतन्त्रस्येवं परैर्यन्त्रितम्येव पक्षिणः ॥ ३३ ॥ यौवनेऽनिष्टसंयोगादिष्टलाभे त्रियोगतः । रागाधाकान्तचित्तस्य कुतः सौख्यं शरीरिणः ॥ ३४ वार्धक्येऽप्यरामर्थस्य विषयांस्तु बुभुत्सतः । प्रक्षीणेन्द्रियवृत्तेस्तु रोगरागायुपद्रवैः ॥ ३५ ॥ पीड्यमानस्य तत्सौख्यं कुतो वास्य मरिष्यतः । ग्रियमाणस्य यद् दुःखं नरकेऽपि न तद् भवेत् ॥ ३६ ॥ ततः पापकृतां दुःखं यमलोकाय गच्छताम् । तद्दर्शनेन पततां पतितानां पतिष्यताम् ॥ ३७ ॥