पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

इति । उत्तरार्धे प्रथमः पटलः । नरकेषु प्रसिद्धं हि दुःखं तस्मान्न भण्यते । यदि पुण्यकृदेव स्यात् स्वर्गे देवादिदेहवान् |॥ ३८ ॥ विमानादिषु दिव्येषु भोगेषूपनतेष्वपि । डवा (पापा ? त्वल्पां) श्रियं दीप्तामन्येषामात्मनोऽधिकाम् ॥ ३९ ॥ सन्तप्त एष विषयान् भुङ्क्ते दुःखं धिया वहन् । ततोऽपि क्षीणपुण्यानां पतनाद्यवलोक्य तु ॥ ४० ॥ यादृशं हृदये दुःखं न तद् वर्णयितुं क्षमम् । अथ राज्यादिषु सुखं स्याच्चेत् सन्ध्यादिदुःखिनः || ४१ ॥ पुत्रेभ्योऽपिं भयं यस्य तस्य सौख्यं कुतो भवेत् । अत्र पराशरः- "यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ।। यद् यद् गृहे तन्मनसि यत्रतत्रावतिष्ठतः ।

  • नाशव्ययादिभीत्या क्व परिग्रहवतां सुखम् ।।"

तथा चाहुः - “यतो यतो निवर्तते ततस्ततः सुखी भवेत् । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि” ॥ तथापि तृष्णया जन्तुः पीड्यमानो दिवानिशम् | अर्थाद्यार्जनवैतृष्ण्यं न कदाचिन्निगच्छति ॥ तथाचोक्तं- "जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुश्रोत्रे च जीयेते तृष्णैका निरुपद्रवा ॥ यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । . नालमेकस्य तु यतस्तां तृष्णां दूरतस्त्यजेत् ॥" नाशदाहापहरणं तत् तस्यास्यैव तिष्ठति' इति विष्णुपुराणे पठ्यते । ९२