पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ अतो न कर्मणा कार्ये प्रजया वा धनेन वा । त्यागेनैवामृतत्वं हि प्राप्तुं शक्यं मनीषिभिः ॥ ४२ ॥ तस्माद् धर्मार्थकामेभ्यो मोक्ष एव विशिष्यते । अस्थिरत्वात् त्रिवर्गाणां दुस्संपादतयापि च || ४३ || अलमलमतिविस्तरेण । प्रस्तुतमेवानुसन्धीयते । इत्थं विज्ञाय संसारमसारं तद्विरागतः । मोक्षमार्गः परो योगः साङ्गः साध्यो विपश्चिता ॥ ४४ ॥ स च सन्न्यसनात् सम्यग् योग: प्राप्यो म चान्यथा । सन्न्यासो मुण्डनान्न स्याद् दण्डादेर्ग्रहणादवि ॥ ४५ ॥ काषायावरणाद्यं च मुण्डनं दण्डधारणम् । यदन्यदप्येवमाद्यं देहस्योक्तं न देहिनः ॥ ४६ ॥ जडस्येह शरीरस्य घटकुड्यादिधर्मणः । वेषलङ्घनमात्रेण देही मोक्षं कथं व्रजेत् ॥ ४७ ॥ अत एव शरीरस्य कर्तृत्वं नापि भोक्तृता । शरीरकर्मणां कर्ता संस्कार्यस्तत्फलार्थिभिः ॥ ४८ ॥ अत एव हि सन्न्यासस्त्यागः स्यात् काम्यकर्मणाम् । काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ॥ ४९ ॥ लोकार्थपुत्रैषणाभ्यो निवृत्तो यः सदैव हि । स्ववर्णाश्रमयुक्तानां तथा स्वसमयस्य तु ॥ ५० ॥ विहितानां तु धर्माणां तत्फलेप्चनपेक्षया । ईश्वर रार्पणबुद्ध्या तु करणं न्यास इष्यते ॥ ५१ ॥ तद्वान् यतिश्च सन्न्यासी न स्यात् केवलमुण्डितः । ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ॥ ५२ ॥ ब्रह्मचारी गृहस्थों वा वानप्रस्थोऽथवा यतिः । चरिवासा जटी वापि द्विदण्डो वाथै मुण्डितः ॥ ५३ ॥ विवासाः शुक्लवस्त्रो वा काषायवसनोऽथवा । कर्म सन्न्यासनं कृत्वा साजयोग समाश्रितः ॥ ५४ ॥ 'स' ख. पाठः