उत्तरार्धे द्वितीयः पटलः । प्राणस्य धारणं दहे प्राणायाम इतीरितः ॥ ४१ । स च नैकविधः प्रोक्तो योगशास्त्र विशारदें: । पूरकः कुम्भकश्चैव रेचकश्चेति ते त्रयः ॥ ४२ ॥ प्राणसंयमनानां तु खात्यान्यज्ञान्यनुक्रमात् । (?) त्रिभिरङ्गैर्युतस्त्र्यंग स्याकुत्पूरकं विना (?) || ४३ ॥ नासापुटेन बामेन पूरयेदुदरेऽनिलम् । निर्दिष्टोद्धातमात्राभिर्विज्ञेयः स तु पूरकः ।। ४४ ॥ पूरितस्याथवा वायोः केवलस्य निरोधतः । संपूर्ण कुम्भवत् तिष्ठेद् यदासौ कुम्भकः स्मृतः ॥ ४५ ॥ वामेतरेण घ्राणेन (मा?म) रुतः पूरितस्य तु । शनैः क्रमेण यो मोक्षो रचकः परिपठ्यते ॥ ४६॥ तत्र षोडशमात्रस्तु सामान्यः पूरको मतः । कुम्भकः षष्टिमात्रः स्यात् पञ्चोद्धातस्तु संस्मृतः ॥ ४७ ।। युग्मोद्धातो रेचकः स्याश्चतुर्विंशतिमात्रकः । प्राणायामो ह्ययं मन्दो मध्योऽस्माद् द्विगुणो भवेत् ।। ४८ ।। त्रिगुणस्तूत्तमो ज्ञेयः क्रमेणाभ्यासयोगतः । अगर्भाश्च सगर्भाश्च प्राणायामातु ते स्मृताः ॥ ४९ ॥ अन्तर्मन्त्रजपोपेताः प्राणायामा: सगर्भकाः । अन्तर्जपविहीना ये ते त्वगर्भा इति स्मृताः ॥ ५० ॥ प्राणयामादगर्भात् तु सगर्भः श्रेष्ठ उच्यते । तद्यथा--- कुम्भीकृत्योदरे वायुं स्वस्वमन्त्रं घिया जपेत् ॥ ५१ ॥ प्राणायाम सगर्भ तु कुर्यात् तद्गतमानसः । एकाक्षरः स्वमन्त्रश्चेत् तस्य स्याद् द्विशतं जपः ॥ ५२ ॥ प्रत्यक्षरविवृद्ध्यात्वा त्रिंशद्वर्णाननुक्रमात् । भावयित्वायतप्राणः प्राणायामं समाचरेत् ॥ ५३ ।। १. 'हापयि' ख. पाठ:
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२८
एतत् पृष्ठम् परिष्कृतम् अस्ति