पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे तृतीयः पटलः । अकारमूर्तिमिडया पूरयेन्मरुतोदरम् | कुम्भीकृत्य यथापूर्वं धियैव प्रणवं जपन् ॥ ३१ ॥ स्थिरीकृत्य तु संहृत्य रेचयेद् दक्षिणेन तु । अथवा हृदयाब्जस्थं वासुदेव चतुर्भुजम् ॥ ३२ ॥ शङ्खचक्रधरं सौम्यं शुक्लवर्ण किरीटिनम् । चतुर्बाहुमुदारस्थमुकारमय विग्रहम् ॥ ३३ ॥ स्मरञ्जपन् घिया तारं पूर्ववत् पूरकुम्भकौ । रेचकं च विवाय स्थात् प्राणायामस्तु वैष्णवः पः ॥ ३४ ॥ भ्रुवोरन्तरतोऽम्भोजे मकारमयविग्रहम् । भस्माङ्गरागघवलं रुद्रं ध्यायंत्रिलोचनम् || ३५ ॥ सूपविष्टं चतुर्बाहुं पूर्ववत् प्रणवं जपेत् । पूरकाद्यैर्यथापूर्वी रौद्रोऽयं प्राणसंयमः || ३६ ॥ बिन्दुस्थानेऽम्बुजासीनमष्टबाहुं चतुर्मुखम् । ईश्वरं प्रोक्तरूपादिं व्यायंस्तारं जपन् धिया || ३७ ।। पूरकाद्यैर्यथापूर्वं प्राणायामोऽयमैश्वरः । तथैव मूर्ध्नि कमले ध्यायन् देवं सदाशिवम् ॥ ३८ ॥ तारं जपन् धिया प्राग्वत् प्राणानायम्य पूर्ववत् । सर्वदोषहरोऽयं स्यात् सादेशः प्राणसंयमः ॥ ३९ ॥ कारणाधीशसंयुक्ताः पञ्चैते प्राणसंयमाः । सर्वकल्मषदोषनाः सर्वे सर्वार्थसाधकाः ॥ ४० ॥ योगसिद्धिकराः पञ्च प्राणायामा भवन्ति हि । अथ हृत्पद्ममध्ये वा वि(न्दू?न्दौ)वा व्योमपङ्कजे ॥ ४१ ॥ सूर्यादिमण्डलाधीशतत्त्वतत्त्वेशमूर्तिभिः । पुर्यष्टकाष्टच्छदने स्वस्वाजावरणान्विते ॥ ४२ ॥ यो यो यस्या देवताया भक्तस्तां तत्र संस्मरन् । तत्तन्मन्त्रं जपन् बुद्ध्या पूरकादिक्रमेण तु ॥ ४३ ॥ प्राणसंयमनं कुर्वन् योगसिद्धिमवाप्नुयात् । अथवा हृदयाब्जादौ पश्यञ् ज्योतिर्निरञ्जनम् ॥ ४४ ॥ BR 2 ६३१