पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

धारणाधिकारः] उत्तरार्धे तृतीयः पटलः । निःश्वासोसनाद्यं च विना ज्ञानं च शक्यते । विनैव पूरकं तद्वद् रेचकं च विनैव तु । कुम्भकेनैव सुचिरमपि तिष्ठेज्जितानिलः । मनोजव (इग)तिश्च स्याद् दूरादर्थांश्च पश्यति ।। खेचरो द्वादशाब्देन जरापलितवर्जितः । चिरजीवी च भवति ततो द्विगुणवत्सरैः || ऋषिगन्धर्वदेवादीन् पश्यत्याभाषतेऽपि च । ततोऽपि द्विगुणैर्वषैर्लभते चाणिमादिकान् || " प्राणायामाधिकारः । इन्द्रियाणां यथास्वं स्वं विषय परिधावताम् | बलादाहरणं तेषां प्रत्याहारं प्रचक्षते ॥ ५५ ॥ कर्मणां वि (जि ? हि)तानां तु नित्यादीनां विधिं विना । मनसा हृद्यनुष्ठानं प्रत्याहारं विदुर्बुधः ।। ५६ ।। अथवाष्टादशस्थानेष्वाकृष्याधाय मारुतम् । स्ववशे स्थापनं केचित् प्रत्याहारं वदन्ति हि ॥ ५५ ॥ तानि तानि स्थानानि पादाङ्गुष्ठद्वयं गुल्फे जङ्घे जानूरुपायवः । मेहूं कटिस्ततः कन्दो नाभी हृदयवक्षसी || ५८ ॥ कण्ठकूपं तथा तालु घ्राणं क्षेत्रे अमव्यकम् । मूर्धा चाष्टादशैतेषु स्थानात् स्थानं क्रमेण तु ॥ ५९ ।। आहृत्य गरणं वायोः प्रत्याहारः स्मृतो बुधैः । अनेन रोगशान्तिः स्यादाष वर्धनं तथा ।। ६० ।। प्रत्याहाराधिकारः । यमाद्यैः पञ्चभिः (क? )स्तैर्विशुद्धस्य तु योगिनः | आत्मन्यवस्थित बुद्धेर्धारणं सम्प्रचक्षते ॥ ६९ ॥ प्रदेशावस्थितं देहे बुद्धेस्तु मरुता सह । + + + + + + ++ ++ +++ + + + ॥ ६२ ॥