पृष्ठम्:कादम्बरीकथासारः.pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

ii

                       ii

पायमन्वभूवन् ; रचयामासुश्च कादम्बरीकथासारपूराणि दृश्यश्रव्यमेदभिन्नान्यने- कानि काव्यानि । तत्र अभिनन्दकृतकादम्बरीकथासारमेकमेव काव्यं मुद्रापित- मुपलभ्यते । इतराणि दृश्यानि श्रव्यानि च कादम्बरीकथाविलसितानि बहूनि काव्यानि अमुद्रितानि समुफ्लभ्यन्ते । अभिनन्दकृतमष्टसर्गात्मकं मनोहरं काव्यम् ।

अत्र त्रिविक्रमकृतमपरं कादम्बरीकथासाराख्यमतिमनोहरमस्ति किञ्चित् काव्यं यत् षोडशसर्गात्मकं भवेत् । श्रीकृष्णमाचार्यास्तु स्वकीयसंस्कृतवाङ्मय (History of Sanskrit Literature) ग्रन्थे त्रिविक्रमकृतकादम्बरी- कथासाराख्यं काव्यं त्रयोदशसर्गात्मकमभिदध्युः । इदं च पुस्तकं मद्रपुरीराजकीय- लिखितपुस्तकभाण्डागारे समुपलभ्यते । तदीया प्रतिकृतिरेका श्रीवेङ्कटेश्वर- प्राच्यभाषापरिशोधनालयपुस्तकभाण्डागाराधिकारिभिः सम्पादिता । श्रीमानवल्लि- रामकृष्णमहोदयैरपि त्रिविक्रमकृतमेतत्काव्यं श्रीवेङ्कटेश्वरप्राच्यभाषापरिशोधनालय- ग्रन्थभाण्डागाराय दत्तमुपलभ्यते। अथापि प्रागुक्तराजकीयपुस्तकभाण्डागारीय- पुस्तकप्रतिकृतेरेषासम्मिन्नैव ।

अस्मिन् त्रिविक्रमकृते कादम्बरीकथांसाराख्ये काव्ये द्वादशसर्गाः सम्पूर्ण- तया उपलभ्यन्ते । त्रयोदशसगे तु केवलमादिमः श्लोक उपलभ्यते । उपलभ्य- मानग्रन्थांवशिष्टकथापर्यालोचनेनापि इदमवगन्तुं शक्यते यत् अयं त्रिविक्रमः षोडशसर्गात्मकं काव्यं रचितवान् स्यादिति ।

अयं त्रिविक्रमो राजराजसूनुं सकलविद्याधरचक्रवर्तिशिप्यमात्मानं स्वयमाह । उफ्लभ्यमानग्रन्थात् इतोऽधिकं किमपि नावगम्यते । यदि अवशिष्टाः सर्गा उपलभ्येरन् किमप्यवगम्येत इत्यन्यदेतत् ।

यथावत् निजाशयप्रकाशनचतुरा लोके विरलविरलास्सन्ति । पराशयानु- वदनचतुरास्सन्ति नवेति विचिकित्सापदम् । कादम्बरीकथासारप्रणेता अयं त्रिविक्रमः प्राकृतव्याकरणकर्तुः लिविक्रमस्य "वक्तारः" इत्यस्य परमं लक्ष्यं भवेदिति मे मतिः । तत् यथा :--