ततस्त्वयि निवृत्तायामयं किं नु करिष्यति ।
इति द्रष्टुं पुनः प्राप्तः तत्र तं न व्यलोकयम् ॥ ४२ ॥
किमप्यनिष्टमेककी रागान्धः स्वयमाचरेत् ।
इति स्नेहातमन्वेष्टुं वत्सं धेनुमिवोद्यतः ॥ ४३ ॥
लताकुलानि हृद्यानि पुष्पिता वृक्षवाटिकाः।
नदीतीराणि रम्याणि व्यचरं तद्दिदृक्षया ॥ ४४ ॥
गिरिप्रस्थाद्रिरिप्रस्थं वाप्या वापीं वनाद्वनम् ।
अभ्रमं पुनरावेगात्पद्मात्पद्ममलिर्यथा ॥ ५५ ॥
तं दष्टमिव सर्षेण शयानं नष्टचेतनम् ।
लतानिकुत्र कुत्रापि पुण्डरीकं व्यलोकयम् ॥ ४६ ॥
एवं किं बाधते काम इति पर्याकुलो भृशम् ।
किमिदं पुण्डरीकेति तमजानन्नित्राब्रवम् ।। ४७ ।।
उन्मील्य लोचने मन्दमपाङ्गलदश्रणी ।
अयमा1मिषदोषज्ञ दुःखार्ता मां व्यलोकयत् ॥ ४८ ॥
सखे ! विदितवृत्तान्तः विमर्थ पृच्छसीह माम् ।
इति लज़ातुरो मन्दमव्यक्ताक्षरमब्रवीत् ॥ ४९ ॥
सखे ! सर्वमहं वेद्मि परमाणुश्च पर्वतः।
मजतश्चेत्समुदे ढं वद कैव भिदा तयोः ॥ ५० ॥
महानपथवर्ती त्वं यदि त्वां निरुणद्धि कः ।
उत्कृलः सिन्धुरागच्छेद्वद कस्तं प्रतीपयेत् ॥ ५१ ।।
1. मचिषदोषज्ञमित मातृक ।
४८. आनिषदोषतं भोग्यवस्तुदे