पृष्ठम्:कादम्बरीकथासारः.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
श्री त्रिविक्रमविरचितः

नवमः सर्गः

ततः सन्ध्यामयूखेन रञ्जितं पश्चिमाम्बरम् ।
पुण्डरीकानुरागेण मच्चित्तमिव कातरम् ॥ १ ॥

विसृत्वरेण तमसा वेष्टित भुवनत्रयम् ।
पुण्डरीकवियोगेन शून्ये चित्तमिवात्मनः ।। २ ॥

अकुरत्तारनिवहा सन्ध्या रागवती बभौ ।
पुण्डरीकानुसन्धानान्मूर्तिरुपुलकेव मे ॥ ३ ॥

पुण्डरीकवियुक्ताया हृत्पद्मन समं मम ।
पझिन्या भानुभिनयाः पद्माः समकुचन्निशि ॥ ४ ॥

पुण्डरीकस्य विरहाद्रेव तनुर्मम ।
ऐन्द्री गर्भितशीतांशुः अश्वतत शनैर्हरित् ।। ५ ।।

व्याकीर्णतिमिरं रेजे प्रच्य मूलं विपाण्डरम् ।
विप्रेषितपतेर्नार्या लम्बालकमिवाननम् ॥ ६ ॥

तमःप्ररोहक्लुषा लेभे माधवती हरित् ।
पर्याविलप्रवाहेव प्रसादं सुरनिम्नगा ।। ७ ।।

यामिनीसागरस्येव वेलापुलिनशालिनी ।
चन्द्रिकाधक्य काष्ठा चकाशे शतमन्यवी ।। ८ ।।

प्रभामण्डलमध्यस्थं प्रादुरासेन्दुमण्डलम् ।
जटावलयसंवीतं पुण्डरीकमुखे यश्च ॥ ९ ॥

रोचिषा रजनी भर्तुः द्यौः प्रसादं समानशे ।
कपिञ्जलस्य वचसा कलुषेव मतिर्मम ॥ १० ॥