पृष्ठम्:कादम्बरीकथासारः.pdf/११

एतत् पृष्ठम् परिष्कृतम् अस्ति

"भुक्त्वा आस्थानमण्डपमयासीत् । ....तत्कालोचितदर्शनैरवनिपति- भिरमात्यैर्मिनैध सह तास्ताः कथाः कुर्वन् मुहूर्तमिवासांचक्रे। ततो नातिदूरवर्तिनीं 'अन्त: पुरात् वैशम्पायनमादाय आगच्छ ?इति ........राजा प्रतीहारीमादिदेश । सा क्षितितलनिहितजानुकरतला ‘यथा आज्ञापयति देवः ’ इति शिरसि कृत्वा आज्ञां यथादिष्टम करोत् ’ इति मूलकादम्बरी ।

(आ. पृ. ३५,)

अत्र शूद्रको महाराजः प्रातराकिमाथानकृत्य यथावन्निर्वर्य शुकमुः पायनीकनुमागतां हरिजनकन्यकां ‘विश्रम्यताम्' इत्यभिधाय कृतघ्यायामाभिषेकः परिधाय क्षौमवाससी उपरचितपशुप:िपूजश्च समुचितभोजनैस्सह भूपभिरभिमत रसास्वादजातप्रीतिः आस्थानमण्डपमयासीदिति तत्र च आस्थाने तत्कालोचित- दर्शनैरव नापनिभिस्तस्त: कथाः कुर्वन् नातिदूरवर्तिनीं प्रतीहारीमादिदेश च वैशम्पायनमानेतुं इति सा च प्रतीहारी यथादिष्टमकदिन च श्रवणपेयं बाणो वर्णयाम्बभूव ।

अभिनन्दस्तु तमिमं बाणाभिहितमर्थमभोनिर्दिष्टपद्यरूपेण व्यरीरचत् ः

........... " भुक्त्वा शथ्यागृहं ययौ । तत्र पर्यङ्कमारूद ध्यात्वैव किमपि क्षणम् । तमन्तःपुरविश्रामं शुकमानायययुनः॥ (अभि. का. क. सा. १-४७) अत्रैव त्रिविक्रमस्तु एवं रचयामास : “ निर्वर्त्य भोजनविधं निरुपद्रवशासनः । कैश्चिद्रायुस्साधे स प्रापास्थानमण्डपम् ॥ अध्यास्त तल्पं भूपालो नितरोत्तरच्छदम् । भुजङ्गभोग’ के पुमानिव पुरातनः ॥